SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः। तत्र शरीरमनसो लक्षणं कथितम् । भाषादीनां तु निगद्यते । तत्रापि भाषावाग्योगयोळक्षणद्वारा पार्थक्यं पदयते: भाषाप्रवर्तकत्वे सति जन्तुप्रयत्नविशेषरूपत्वं वाग्. . योगस्य लक्षणम् । भापात्वेनापादितभाषाईद्रव्यसन्ततिरूपत्वं लक्षणं भा. पायाः। ____ कौप्ठ्यप्रभवोच्छ्वासलक्षणो यो वायुस्तद्रूपत्वं प्रा. णस्य लक्षणम् । अत्र च लक्षणघटकोच्छ्वासस्यापि लक्ष. णमुच्यते___ उच्छ्वासत्वेनापादिता या द्रव्यसन्ततिस्तस्याः पुनव्यापारकरणशीलत्वमुच्छ्वासस्य लक्षणम् । अन्तः क्रियमाणो यो वाहवायुस्तस्य पुननि:श्वासरूपत्वमपानस्य लक्षणम् । सुखदुःखजीवितमरणद्वाराऽपि पुद्गलानामुपकारो भवति । . सातावेदनीयोदयादात्मनः प्रसन्नतानुरूपत्वं सुखस्य लक्षणम् । असातावेदनीयोदयादात्मनः संक्लेशरूपत्वं लक्षणं दुःखस्य । आयुर्नामकर्योदयात् प्राणस्याव्युपरमरूपत्वं जीवित.. स्य लक्षणम् ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy