SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ .जैनतत्त्वप्रदीपेआयुर्नामकर्मोच्छेदात् प्राणस्य व्युपरमरूपत्वं मरणस्य. लक्षणम्। जीवस्य स्वस्वामिभावादिसंवन्धद्वारा परस्परम्पकारो भवति। . वर्तनापरिणामक्रियापरत्वापरत्वादिद्वारा कालस्योपकारो भवति। __ सादिसान्तादिलक्षणस्थिती येन केनचित् प्रकारेण · द्रव्याणां यद्वर्त्तनं तद्रूपत्वं वर्तनाया लक्षणम् । ___ अथवा स्वयमेव वर्तनशीलानां पदार्थानां प्रयोजकत्वम् । अथवा प्रतिद्रव्यपर्यायमन्तीतैकसमयस्वसत्तानु. भूतिरूपत्वम् । . द्रव्याणां प्रयोगविलसाजन्यनूननत्वपुरातनत्वादिरूपा या परिणतिस्तद्रूपत्वं परिणामस्य लक्षणम् । अथवा द्रव्यस्य स्वजात्यपरित्यागेन परिस्पन्देतरप्रयोगजन्यपर्यायस्वभावरूपत्वम् । अनवस्थितादिकार्थानां भवत्व-वर्तमानत्व भविष्यत्त्वविशिष्टचेष्टाविशेषरूपत्वं क्रियाया लक्षणम्। पूर्वभावित्वं परस्य लक्षणम् । पश्चाद्भावित्वमपरस्य लक्षणम् । गतिस्त्रेधा, प्रयोगविस्रसामिश्रभेदात् । जीवपरिणामसंप्रयुक्तशरीराहारवर्णगन्धरससंस्थान- ।। विषयकत्वं प्रयोगगतेलक्षणम् ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy