SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ . जैनतत्त्वमदीपेइन्द्र-सामानिक-त्रायस्त्रिंश-पार्पद्यात्मरक्षक-लोकपालानीक- . प्रकीर्णकाभियोग्य किल्विषफभेदात् । तत्र. देवगतिनामकर्मोदये सत्याधिपत्यशाळिरूपत्वमिन्द्रस्य लक्षणम् । देवगतिनामकर्मोदये सत्याधिपत्याभावे च सतीन्द्रसमानर्दिकत्वं सामानिकस्य लक्षणम् । इन्द्रस्यैव मन्त्रि-पुरोहितस्थानाधिरूढत्वं त्रायस्त्रिंशस्य लक्षणम् । तस्यैव वयस्यस्थानीयत्वं पार्षद्यस्य लक्षणम् । तस्यैव आरक्षिकार्थचरस्थानाधिरूढत्वं लोकपालस्य लक्षणम् । तस्यैव शिरोरक्षस्थानाधिरूढत्वमात्मरक्षस्य लक्षणम् । तस्यैव सेनास्थानाधिरूढत्वमनीकस्य लक्षणम् । तस्यैव.पौरजनस्थानाधिरूढत्वं प्रकीर्णकस्य लक्षणम्। तस्यैव दासस्थानाधिरूढत्वमाभियोग्यस्य लक्षणम् । तस्यैवान्त्यजस्थानाधिरूढत्वं किल्विपिकस्य लक्षणम्। व्यन्तर-ज्योतिष्कयो.कपाल-त्रायविंशवर्जा अष्टधा। भवनपति-व्यन्तर-ज्योतिष्क-सौधर्मेशानपर्यन्तादेवाः कायेन प्रवीचारं कुर्वन्ति । तत्र प्रवीचारो नाम मैथुनव्यवहाररूपत्वम् । शेपेषु द्वयोर्द्वयोः स्पर्श-रूप-शब्द-मनोविषयकमवीचारा भवन्ति ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy