SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽधिकारः। अशुभतराशुभतमलेश्यादिपरिणामवत्त्वे सति नरकगतिनामकर्मोदयरूपत्वं नरकगतेर्लक्षणम् । तिर्यग्गतिनामकर्मोदयरूपत्वं तिर्यग्गतेर्लक्षणम् । मनुष्यगतिनामकर्मोदयरूपत्वं मनुष्यगतेलक्षणम् । तत्र मनुष्या द्विविधाः, आर्य म्लेच्छभेदात् । तत्र हिंसा-ऽसत्यादिहेयधर्माद् दूरीभवनशीलत्वमार्यस्य, तद्विपरीतस्वरूपवत्वं च म्लेच्छस्य लक्षणम् । आर्याश्च कर्मभूमिजा इति तल्लक्षणं निगद्यते सम्यग्दर्शनादिरूपमोक्षमार्गज्ञातृत्वोपदेतृत्वादीनामुत्पत्तिस्थानरूपत्वं कर्मभूपेर्लक्षणम् । . प्रायशः शुभतरादिलेश्यादिपरिणामवच्चे सति देवगतिनामकर्मोदयरूपत्वं देवगतेलक्षणम् । देवाश्चतुर्विधाः, भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकभेदात् । तत्र देवगतिनामकर्मोदये सति भवननिवासशीलत्वं भवनपतेलक्षणम् । देवगतिनामकर्मोदये विविधप्रदेशेषु निवासशीलत्वे च सति अनियतगतिप्रचाररूपत्वं व्यन्तरस्य लक्षणम् । देवगतिनामकर्मोदये सति प्रकाशखभावरूपत्वं ज्योतिष्कस्य लक्षणम् । ' विमाने भवनशीलत्वं वैमानिकस्य लक्षणम् । भवनपति-वैमानिकनिकाययोर्दशधा देवाः सन्ति,
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy