SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ २६ . जैनतत्त्वप्रदीपेब्दायुपलब्धिविषयकोपभोगजननाभावरूपत्वं वा कार्मणशरीरस्य लक्षणम् । पुनरपि ते जीवास्त्रेधा, स्त्री-पुरुष नपुंसकलिङ्गभेदात् । योनिमृदुतास्थैर्यमुग्धता-स्तनलीवता-पुंस्कामनाभिमतादिचिह्नवत्वं स्त्रीलिङ्गस्य लक्षणम् ।। मेहन-खरता-दाय-शौण्डीय श्मश्रु-धृष्टतादिचिह्नवचं पुरुषलिङ्गस्य लक्षणम् । मोहानलमुदीपितत्वे सति स्तन श्मश्रु-केशादिभावा. भावसमन्वितत्वं नपुंसकलिङ्गस्य लक्षणम् । जीवानामायुधा, सोपक्रम-निरुपक्रमभेदात् । तत्र.. आगमोक्ताध्यवसानाद्यायुम्क्षयकारणैर्वहुकालेन भोग्यं यदायुरल्पकालेन भुज्यते तद्रूपत्वम् , बन्धकाले शक्या. पवर्तनस्वरूपशिथिलवन्धनेन यदायुर्वद्धं तद्रूपत्वं वा सो. पक्रमस्य लक्षणम् । यद् गादनिकाचनेन बन्धकालेऽशक्यापवर्तनस्वरूपक्रमवेद्यफलकमायुर्वद्धं तद्रूपत्वं निरुपक्रमस्य लक्षणम् । पुनरपि स जीवश्चतुर्विधः, नरक-तिर्यग्-मनुष्य-देवगतिभेदात् । तत्र १ अत्र पिण्डीकृतरज्जुदहनमुदाहरणम् । २ आयतीकृतरज्जुदहनमिह निदर्शनम् । -
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy