SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ अ०१ पा० १ सू०६८-६] महावृत्तिसहितम् विकल्प्यते । व्युङ इति किम् ? विवर्तिषते । वर्तित्वा । अव इति किम् ? दिदेविषति । देवित्वा । हलादेरिति किम् ? एषिषिषति । एषित्वा । सनि एपि कृते द्वित्वम् । सेडित्येव । बुभुक्षते । भुक्त्वा । युक्रवदुसि लिङ्गसंख्ये ॥१२८॥ युक्तः प्रकृत्यर्थः । प्रत्ययार्थेन सम्बन्धात् । उसोऽथ उस् । उसि युक्त इव लिङ्गसंख्ये भवतः। इवार्थे वत् । उसिति नाशस्य संज्ञा । उसा नष्टस्य त्यस्यार्थः साहचर्यादुस । तत्रोस] प्रकृत्यर्थे इव लिङ्गसंख्ये विधीयते । लिङ्ग स्त्रीनपुसकानि । संख्या एकत्वद्वित्वबहुत्वानि । पञ्चालो नाम राजा तस्यापत्यं “राष्ट्रशब्दादाज्ञोऽञ्" ३।।१५०] इत्यञ् । बहुत्वे तत्योपि कृते पञ्चालाः क्षत्रियाः पुल्लिङ्गा बहुसंख्याः । तेषां निवासो जनपदः "तस्य निधासादूरभवौ" [३।२।१६] इत्यागतस्याण: “जनपद उस्”[३।२।६१] इत्युस् । क्षत्रियेषु ये लिङ्गसंख्ये ते जनपदेऽपि भवतः । पञ्चालाः । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः। एवं वरणानामदूरभवः । गोदौ नाम हृदो तयोरदूरभवः । “वरणादेः" [३।२।३२] इति उस् । वरणाः । शिरीषाः । गोदौ । अर्थातिदेशाद्विशेषणानामपि तद्वत्ता सिद्धा" वा पञ्चाला रमणीया बन्ना बहुक्षीरघृता बहुमाल्यफलाः। वरण रमणीयाः । गोदौ रमणीयौ । “अजातेरिति वक्तव्यम्" (वा०)। पञ्चाला जनपदः । गोदौ ग्रामः । अत्र जनपदग्रामयोर्जातित्वान्नातिदेशः । जात्यों जातिः । तेन तद्विशेषणानामपि प्रतिषेधः। पञ्चाला जनपदो रमणीयः। नेदं वक्तव्यम् । सज्ञाप्रामाण्यात् । यथा वर्षा आपो दारा गृहाः सिकता इत्येवमादीनां संज्ञाशब्दानां संज्ञाप्रामाएयादेव स्वलिङ्गन स्वसंख्यया च साधुत्वमेवं जातेरपि भविष्यति । पञ्चालादीनां तु संज्ञाशब्दानामन्वाख्यानप्रदर्शनार्थमुस्लिङ्गसंख्यातिदेशश्च विधीयते इत्यदोषः । उसीति किम् ? आमलकं फलम् । उपि कृते फलेऽर्थे श्रामलकशब्दस्य स्त्रीलङ्ग मा भूत् । लिङ्गसंख्ये इति किम् ? बदर्या अदूरभवो ग्रामः। वरणादित्वादुस् तस्य वनं बदरीवनभू । वनस्पतित्वातिदेशो मा भूत् । "विभाषौषधिवनस्पतिभ्यः [५/४०] इति णत्वं प्रसज्येत । बेति व्यवस्थितविभाषानुवृत्तेमनुष्याथै उसि विशेषणानां न लिङ्गसंख्यातिदेशः । पञ्चाला अभिरूपः । बहीका दर्शनीयः। चचेव मनुष्यः । "इवे प्रतिकृतौ कः" [ १११५०] इति कः। तस्य "उस मनुष्ये" [ १२] इत्यस्। खलतिकादिषु संख्यातिदेश एव । खलतिकस्य पर्वतस्यादूरभवानि खलतिक वनानि । हरीतक्यादिषुलिङ्गातिदेश एव । हरीतक्या अवयवः फलानि । "हरीतक्यादेः” [ ३।३।१२४ ] इत्युस् । हरितक्यः फलानि । तिष्यपुनर्वसूनां भद्धन्द्धे द्वित्वम् ॥११॥६६॥ तिष्य एकः पूनर्वसू द्वौ । तेषां भद्वन्द्वे द्वित्वं भवति । उदितौ तिष्यपुनर्वसू । तिष्यपुनर्वसूनामिति किम् । राधानुराधाः । श्रवणधनिष्ठाः । भग्रहणं किम् । तिष्ये जातः । पुनर्वस्वोर्जातो तत्र जात इत्यागतस्याणो 'भेभ्यो बहुलम्" [ ३।३।१३] इत्युप् । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसवो माणवकाः। ननु गौणल्यादेवात्र न भविष्यति । पर्यायाधै तर्हि भग्रहणम् । पुष्यपुनर्वसू सिद्धपुनर्वसू इति । बहुवचननिर्देशः किमर्थः ? एकवद्भावे मा भूत् । इदं तिष्यपुनर्वसु । इदमेव ज्ञापकं "वा तरुमृग०" [ I] अादिसूत्रे वेति योगविभागोऽस्ति । द्वन्द्व इति किम् । यस्तिष्यस्तौ पूनर्वसू येषां ते तिष्यपुनर्वसवो मुग्धाः तिष्यादय एवात्र विपर्ययेण प्रतीयन्त इति भविषयत्वमास्त। "जात्याख्यायामकास्मन् बहुवचनमन्य तरस्याम् । [११८ पा० सू०] इति न वक्तव्यम् । सामान्यविशेषात्मकत्वाद्वस्तुनः । विशेषेष्वनुवृत्ताकार बुद्धि निमित्त सामान्यम् । व्यावृत्ताकारबुद्धिहेतवो विशेषाः। तत्र सामान्यविवक्षायामेकत्वं भवति । सन्नो श्रीहिः। विशेषविवक्षायां बहुलम् । सम्पन्ना ब्रीहयः। संख्यानुप्रयोगे जातिविवव । एको ब्रीहिः सम्पन्नः सुभिक्षं करोति । अस्मदो द्वयोरेकस्य च वा बहत्वं न वक्तव्यम् । कथमहं ब्रवीमि, आवां बवः, वयं ब्रम इति ? आत्मन इन्द्रियाणां च स्वातन्त्र्यं पारतन्त्र्यं विवक्षया भविष्यति । कदाचिदात्मा स्वतन्त्रो भवति । अनेनाणा पश्यामि । कदाचिदिन्द्रियाणां स्वातन्त्र्यम्। इदम्मेऽक्षि पश्यति । तत्रात्मनः स्वातन्त्र्यविवक्षाया १. विकल्पेन विधीयत इत्यर्थः। २. “वद्धिका' अ. “वद्रिका'' मु०। ३. अस्मदो द्वयोश्च (पा० सू० १॥२ ५६ ) इति सूत्रं लक्षयति वृत्तिकारः। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy