SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० १ पा० १ सू० १२-१७ तः सेट पूङ शी स्विन्मिद्विषो न ॥१॥१२॥ पूङ् शीङ् स्विद् मिद् क्ष्विद् धृष इत्येतेभ्यः परस्तसंज्ञः सेट् न किद्भवति । पवितः । पवितवान् । "युकः किति" [शा१७] इतीटि प्रतिषिद्धे "पूङः" [११११] इति तक्त्वोरिट् विभाषितः। शी-शयितः । शयितवान् । अनुबन्धो यकुबन्तनिवृत्त्यर्थम् । शेश्यितः । शेश्यितवान् । “एर्गिवाक्चादुङोऽसुधियः'' [/४७८] इति यत्वम् । स्विदा । प्रस्वेदितः । प्रस्वेदितवान् । प्रमेदितः। प्रमेदितवान् । प्रदोदितः । प्रदवेदितवान् । प्रधर्षितः । प्रधर्षितवान् । वैयात्ये धृष्ट इत्येव भवति । पूङः “तयोर्व्यक्तखार्थः'' [२।४।५५] इति कर्मणि क्तः। शीङः "धिगत्यर्थाच्च" [२।४।५८] इति कर्तरि (क्तः) चेति । स्विदादीनां “कर्तरि चारम्भेक्तः''[२।४।५६] इति कर्त्तरिक्तः ।"आदितः" [शा१२२] इति प्रतिषेधे ( षिद्धे ) "वा भावारम्भयोः'' [२।१।१२३] इति पक्षे भवति । त इति किम् ? पवित्वा । “पूङ:'' [२।१।६६] इतीट्पक्षे मृडादिनियमादकित्त्वम् । सेडिति किम् ? पूतः । पूतवान् । मृषः स्वार्थे ॥११॥६३॥ स्वार्थस्तितिक्षा । मुषेोः स्वार्थे वर्तमानात्तसंज्ञः सेट न किद्भवति । मर्षितः। मर्षितवान् । स्वार्थ इति किम् ? अपमृषितं वाक्यमाह । धूनामनेकार्थत्वात् स्वार्थग्रहणं पठितापेक्षम् । पाठस्तूपलक्षणम् । सेडित्येव । मृत्रु सहने चास्योदिखात् “यस्य वा" [२१।१२१] इतीटि प्रतिषिद्धे मृष्टम् । वोदुङो भावारम्भयोः शपः ॥११॥४॥ तः सेएन किदिति वर्तते। उदुङो धोः शब्धिकरणात्परो भावे चारम्भे च तः सेड् वा न किद्भवति । भावग्रहणां क्तस्य विशेषणम् । श्रारम्भ श्राद्यःक्रियाक्षणः । स धोविशेषणम् । द्यतितमस्य । द्योतितमस्य । सम्बन्धे ता। कर्तृत्वविवक्षायां "न झित" [१२] इत्यादिना ताप्रतिषेधः। द्युतितमनेन । द्योतितमनेन । प्रलुठितः । प्रलोठितः। प्रलुठितवान् । प्रलोठितवान् । "कर्तरि चारम्भे क्तः" [२।४।५६] इति कर्तरि क्तः। उदुङ इति किम् ? विदितमनेन । प्रविदितः । भावारम्भयोरिति किम् ? रुचितः कार्षापणः । शब्धिकरणादिति किम् ? गुधितमस्य । प्रगुधितः । भाविकरणोऽयम् । सेडित्येव । रूढमस्य । प्ररूढः । तपरकरणमसन्देहार्थम् । निकुचित इति नकारस्य खे कृते “सन्निपातलक्षणो विधिरनिमिर्ग तद्विघातस्याः' इत्युदुडो विकल्पो न भवति । विहितविशेषणाद्वा । नोङस्थफात् क्त्वा ॥२१॥६५॥ सेडिति वर्तते वेति च । नकारोङोधोस्थकारान्तात् फकारान्ताच्च क्त्वा सेड् वा किद्भवति । श्रथित्वा । श्रन्थित्वा । ग्रथित्वा । ग्रन्थित्वा । गुफित्वा । गुम्फित्वा । मृडादिनियमान्नित्यमकित्त्वे प्राप्ते विधिर्विभाष्यते । नोङ इति किम् ? गोफित्वा । नन्वत्रापि “व्युङोऽवो हलः संश्च" [१११६७ ] इति विकल्पेन भाव्यम् । एवं तर्हि फेरफित्वा प्रत्युदाहरणम् । थकान्तादिति किम् ? स्रसित्वा ।। वञ्चिलुयुत्त पिमृषिकृषः ।।१।१॥६६॥ वञ्चि लुञ्चि ऋति तृषि मृषि कृष् इत्येतेभ्यः परः क्त्वा सेड् वा किद्भवति । वचित्वा । वञ्चित्वा । लुचित्वा । लुञ्चित्वा । ऋतेर्वाऽगै इति यदा ईयङ् न भवति तदा ऋतित्वा । अर्तित्वा। तृषित्वा । तर्षित्वा । मूषित्वा । मर्षित्वा । कृषित्वा । कर्षित्वा। मृडादिनियमान्नित्यमकित्त्वं प्राप्तम् । सेडित्येव । वक्त्वा । मृष्टा । "वोदित: [शा१०४ 1 इति पक्षे नेट । व्युङोऽवो हलः संश्च ॥११॥६७॥ सेडिति वर्तते वेति च । उकारोङ इकारोङश्च धोरवकारान्ताद्धलादेः परः संश्च क्त्वा च सेटो वा कितौ भवतः। उकारेकारोडोऽजन्तत्वासम्भवाद्धलग्रहणमादिविशेषणम् । दिद्युतिषते । दियोतिषते । “धु तिस्वाप्योर्जि:''[१२।१६७] इति चंस्य जिः । द्युतित्वा । द्योतित्वा । लिलिखिषति । लिलेखिषति । लिखित्वा । लेखित्वा । सन्नकिदेव क्त्वापि सेएमृडादिनियमादकित । तयोरप्राप्त कित्त्वमनेन विधीयमानं १. धातुपाठपठिततितिक्षार्थस्य ग्रहणमित्यर्थः । २, मृष्टः ब०। ३.-धक्रि-ब०। ४. "कमृत्यो. र्णिङीयङ्' २१२८। इति नित्यं हिङीयौ । अत्र वाडगे" इत्यनुवृत्त अगे विकल्पेन विडीयौ इति तत्रत्यवृत्त्यभिप्रायः । एतदाशयेनैवात्र ऋतेर्वाग इति इत्याद्य क्तम् । नस्वित्थं किमपि सूत्रम् । ५. क्वेति ब०, स०। ६. अभ्यासस्य। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy