SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ जैनेन्द्र-व्याकरणम् अ. १ पा. सू. १०० मेकत्वमिन्द्रियाणां स्वातन्त्र्ये बहुत्वम् । सविशेषणस्यात्मविवक्षैव । अहं देवदत्तो ब्रवीमि । अहं साधुब्रवीमि । युष्मदि गुरावुभयविवक्षा । त्वं मे गुरुः । यूयं में गुरवः । एतच्च शब्दशक्ति स्वाभाव्यात् । फल्गुनीप्रोष्ठपदानां नक्षत्रे द्वयोर्बहुत्वं वेति न वक्तव्यम् । कथं कदा पूर्वे फल्गुन्यौ कदा पूर्वाः फल्गुन्यः। कदा पूर्व प्रोष्ठपदे कदा पूर्वाः प्रोष्ठपदाः ? यदा फल्गुनोसमीपगते चन्द्रमसि फल्गुनीशब्दो विवक्ष्यते तदा बहुत्वमन्यदा द्वित्वम् । स्वाभाविकत्वादभिधानस्यैकशेषानारम्भः ॥१।१।१००।। स्वभावत एव शब्द एकशेषमनपेक्ष्य एकत्वद्विलबहुत्वेषु वर्तते । अत एवैकशेषानारम्भः । एकत्वादीनां प्रकृत्युपात्तानामभिव्यक्तये विभक्त्युपादानम् । यथा एको द्वौ बहवः पञ्च सतेति । एवं वृक्षः वृक्षौ वृत्ताः । अथ प्रत्यर्थ शब्दनिवेशान्नंकेनानेकस्याभिधानं तत्रानेकार्थाभिधानेऽनेकशब्दत्वं प्रसक्तमत एकशेषः । अत्रोच्यते-यदि भिन्नेष्वभिन्नाभिधान प्रत्ययहेतुर्जातिः शब्दार्थः । तस्याः प्रत्यायने एक एव शब्दः समर्थः । अथ द्रव्यं शब्दार्थः। तच्चानेकं व्यावृत्ताभिधानबुद्धि लिङ्गम्। तस्याभिधित्सायामनेकशब्दत्वे प्राप्त एकशेष इति । एतदप्ययक्तम् । अवशिष्टः शब्दो निवृत्त शब्दस्य यद्यर्थमभिधत्ते तदास्य द्वित्वेऽपि वृत्तिरिति किमेकशेषेण । अथ नाभिधचे तदा पश्चादपि स एवार्थः । कथमनेकत्रार्थे वृत्तिः १ सरूपाणां द्वन्द्वनिवृत्यर्थमेकशेष इत्यपि नास्त्यनभिधानात् । न हि भवति द्वौ च द्वौ च द्वाविति । अथ विरूपशब्दार्थ एकशेषः । तथाहि-"वृद्धो यूना तल्लक्षणश्चेदेव विशेषः” [पा० सू० १।२।६१] 'अपत्यमन्तर्हितं वृद्धम् । एवकारो भिन्नक्रमः । विशेषो वैरूप्यम् । वृद्धः शिष्यते यूना सह वचने वृद्धयुवलक्षणे एव यदि विशेषः समानायां प्रकृतौ । गार्ग्यश्च गाायणश्च गाग्यो । दाक्षिश्च दाक्षायणश्च दाक्षी। वृद्ध इति किम् ? औपगवश्चानन्तर औपगविश्च युवा प्रोपगवीपगवी । गार्गिगाायणौ । यूनेति किम् ? गर्गश्च गार्ग्यश्च गर्गगाग्र्यो । तल्लक्षण एवेति किम् ? गार्ग्यवात्स्यायनी । अत्र प्रकृतिविशेषोऽप्यस्ति । एवकारः किमर्थः । भागवित्तिभागवित्तिका । भागवित्तरपत्यं युवा । "दोष्ठण सौवीरेषु प्रायः" [३।१।१३६ ] इत्यत्र क्षेपस्यापि भावान्न तल्लक्षण एव । विशेष इति किम् ? वैदश्च वृद्धो वैदश्च युवा वैदवैदौ । तल्लक्षणवैरूप्याभावात् द्वन्द्वो भवत्येव । “स्त्री पुंवच" [पा. सू. १२१६६ ] स्त्री वृद्धा यूना सह वचने शिष्यते पुंवद्भावश्चास्या भवति तल्लक्षण एव यदि विशेषः । गार्गी च गाायणश्च गाग्यो । दाक्षी च दाक्षायणश्च दाक्षी। नेदं द्वयं वक्तव्यम् । जीवति वंश्ये वृद्ध द्वयमभिधत्ते । अजीवति वृद्धयूनोर्द्वन्द्वी नास्त्यनभिधानात् । जीवति वंश्ये वृद्धा स्त्री युवानञ्च सामान्येन वृद्धशब्द एवाभिधत्ते । द्वन्द्वस्य चानभिधानम् । यदपि पुमान् स्त्रिया सह वचने शिष्यते तल्लक्षण एव यदि विशेषः। कठश्च कठी च कटो। मयूरश्च मयूरी च मयूरौ। प्राणिधर्मयोः स्त्रीपुंसयोर्ग्रहणादिह न भवति । नदनदीपतिः । घटघटीसरावोदञ्चनादि । तल्लक्षण इत्येव । कुक्कुटमयूयौं । एवकार इत्येव । इन्द्रेन्द्राण्यौ। भवभवान्यौ। पुंयोगलक्षणोऽप्यत्र विशेषः । इदमपि जातिमात्रविवक्षया सिद्धांत । द्वन्द्वस्य चानाभधानम् । श्रभिधाने द्वन्द्वोऽस्ति। नदनदीपतिः। ब्राह्मणवत्स ब्राह्मणी(ण)वत्सौ। भातपुत्रौ स्वसूदुहितृभ्यां शिष्यत इति न वक्तव्यम् । भ्राता च स्वसा च भगिनी वा भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । अपत्यमात्रविवक्षया द्वन्द्वानभिधानञ्च । इदं तर्हि वक्तव्यम् । नपुंसक १ मनपंसकेनैकपच्चास्यान्यतरस्यान्तल्लक्षण एव यदि विशेष इति । शुक्लञ्च वस्त्रं शुक्लश्च कम्बलः शुक्ला च साटी तदिदं शुक्तम् । तानीमानि शुक्लानि । नेदं ज्यायः, त्रिषु लिङ्गेष नपुंसकस्य प्रश्नादौ प्राधान्यात् । तेन (नपुंसकत्व) १.-याणां बहु-अ, ब, स.। २.-क्तिस्व वात् । फल्गु-अ.] ३, “फल्गुनीप्रोष्ठपदानां च नक्षत्रे" पा० सू० १२१६०। ४. प्रत्यर्थशब्द-अ०। ५.-धाने प्रत्य-अ०। ६.-त्तस्य शब्दअ०, ब०, स० । ७.-कार्थे वृ-स०। ८. "पुमान् स्त्रिया" पा० सू० १।२।६७। इत्यभिलक्ष्य खण्डयति । है. 'भ्रातृपुत्री स्वसूदुहितृभ्याम्" पा० सू० १२६८इति खण्डयति। १०. "नपुंकमनपुंसकेनैकवच्चास्यान्यतरस्याम्" इति पा० सू० ११६६ For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy