________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० २ सू० २५-३०] महावृत्तिसहितम् मित्रयोः" [४।२।१५०] इत्यनयोर्ग्रहणम् । महासिन्धौ भवः माहासैन्धवः । “कच्छादेः" [३।२।१११] इत्यण । सिन्धुशब्दस्य तत्र तदन्तविधिरपि । सौभाग्यम् । दौर्भाग्यम् । सुभगाया अपत्यं दणि "कल्याण्यादीनामिनङ" [३।१।१४५] सौभागिनेयः ।
अनुशतिकादेः ॥ २५॥ अनुशतिक इत्येवमादीनां शब्दानां द्वयोः पदयोरचामादेरच ऐब् भवति । अनुशतिकस्वेदम् आनुशातिकम् । श्रानुशातकिः । अनुहोड-प्रानुहौडिः । अनुसंवरण-आनुसांवरणिः । अगारवेणोरिदम् आगारवैणवम् । अमिहत्यायां भवम् प्रासिहात्यम् । अस्यहत्य इति कपाञ्चित् पाठः । अस्यहत्यशब्दोऽस्मिन्नस्ति आस्यहात्यम् । “विमुक्तादिभ्योऽण [४॥६५] अस्यहेतीति पाठान्तरम् ।। अस्यहेतिः प्रयोजनमस्य प्रास्यहैतिकम् । अध्ययः । श्राध्यायिः । वध्योगस्यापत्यं वाध्योगः । “विदादिभ्योऽनुष्यानन्तर्येऽञ्" [३।१।६३] । पुष्करसद्-पौष्करसादिः। अनुबाहुः-सान्वबाहुः। सान्वबाहविः । “बाह्वादेरिज्" [३।१।८५] । कुरुकत्-कौरुकात्यः । “गर्गादेर्यञ्” [३।१।६४] । कुरुपञ्चालेषु भवः कौरुपाञ्चालाः । “प्राग्दोरण्” [३।१।६८] । राष्ट्रसमुदायो राष्ट्र ग्रहणेन न गृह्यते । तेन "राष्ट्रावध्योः " [३।२।१०२] इति बुत्र नास्ति । उदकशुद्ध-प्रौदकशौद्धिः । इहलाक-ऐहलौकिकः । पारलौकिकः। प्रयोजनार्थे वुअ । सर्वलोकः-सर्वस्मिन् लोके विदितः सावलौकिकः । "लोकात्" [३१४१४४] "सर्वात्" [३॥४॥४५] इति ठण् । सर्वभूमेरीश्वरः सार्वभौमः । “सर्वभूमिपृथिवीभ्यामण" [३।४।४१] । सार्वपौरुषम् । तस्येदमर्थे प्रायोगिकम् । आधिदैविकम् । आधिभौतिकम् । भवार्थे अध्यास्मादिलाट्टण् । परस्त्री-पारस्त्रयः। ठणि "कल्याण्यादीनामिनट" [३।१।११५]। सूत्रनट-सौत्रनाटिः । अभिगममर्हति आभिगामिकः । राजपुरुषाफिज । राजपुरुषायरिणः।
देवताद्वन्द्वे ॥५॥२।२६॥ देवताद्वन्द्वे च द्वयोः पदयोरचामादेरच ऐब् भवति । याग्निवारुणम् । अग्निश्च वरुणश्च देवते अस्य | ऐविषये "ऐपीत्" [३३१४१] इत्यग्नेरित्वम् । एवम् याग्निमारुतम् । अभिधानवशादानङ् विषयेऽयं विधिरन्यत्र न भवति । स्कान्दविशाखः । ब्राह्मप्रजापत्यः। तस्येदमर्थे अण । "दिति” [३।११७०] अादिना एयश्च ।
नेन्द्रस्य ॥२॥२७॥ द्योरिति वर्तते । इन्द्रत्य यौरैम्न भवति । आग्नेद्रः। “देवताद्वन्द्वे" [पा२।२६] इति पूर्वपदस्यान । इन्द्रस्य द्योरेकादेशे कृते “यस्य ड्यां च" [ १३६] इत्यखे च श्रादेरचो नाशात्कथमैपः प्राप्तिः । इदमेव ज्ञापकम् “पूर्वोत्तरपदयोः कार्यमन्तरङ्गमप्येकादेशं बाधते"। तेन पूर्वेषुकामशमादयः सिद्धाः भवन्ति । द्योरिति किम् ? ऐन्द्राग्नः । “अजायत्" [१॥३।६६] इत्यत्रेन्द्रस्य वा पूर्वनिपात इष्यते।
द्यो वरुणस्य ॥५॥२॥२८॥ धन्तात्परस्य वरुणशब्दस्यै न भवति । ऐन्द्रावरुणः । द्य इति किम् ? आग्निवांरुणः । मैत्रावरुणः । ऐचिपये "ऐपीत्' [४।३।१४१] इत्यग्नेरित्वम् पश्चायोरेप ।
प्राचां नगरे ॥शरा२६॥ प्राप्त्यभावान्नेति न सम्बध्यते । द्वयोरिति वर्तते । अर्थवशाद्विभक्तीपरिणामः । प्राचां देशे नगरे द्यौर्द्वयोः पदयोरैब् भवति । सुहानगरे भवः सौहानागरः । पौण्ड्रनागरः। वैराटनागरः । दोरिति तत्रानुवर्तनाद्रोङन्तात् "प्राचाम्" [३।२।१०१] इति बुञ् भवति । प्राचामिति किम् ? मलनगरे भवो मालनगरः ।
जङ्गलधेनु वलजे ॥५२॥३०॥ जङ्गल धेनु वलज इत्येतेषु धुषु पूर्वपदस्य अचामादेरच ऐब् भवति । पूर्वपदस्येति कथं लभ्यत इति चेत् “वा चोः" [५।२।३.] इत्युत्तरत्र वक्ष्यमाणत्वात् । कुरुजङ्गले भवः कौलजङ्गलः । वैश्वधेनवः । सौवर्णवलजः ।
For Private And Personal Use Only