SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६२ जैनेन्द्र-व्याकरणम् [अ० ५ पा० २ सू० २०-२४ इति वुन । पूर्वपाटलिपुत्रकः । अपरपाटलिपुत्रकः । पूर्वकन्याकुब्जायां पूर्वस्यां कन्याकुब्जायां वा जातः अणि णे च कृते पूर्वकान्यकुब्जः । ननु चैकमेव पाटलिपुत्रम् । पाटलिपुत्रान्तरस्य व्यवच्छेद्यस्याभावाद् कथं पूर्वशब्देन विशेष्यते ? पाटलिपुत्रौकदेशे पाटलिपुत्रशब्दो वर्तते इत्यदोषः । __ सङ्ख्यायाः सङ्ख्यासंवत्सरस्य ॥२२२०॥ सङ्ख्यायाः परस्य सङ्ख्याशब्दस्य संवत्सरस्य च घोरचामादेरच ऐब्भवति णिति हृति परतः । द्विनावतिकम् । त्रिनावतिकम् । द्वाभ्यां नवतिभ्यां क्रीतम् । हृदर्थ रसः । “प्रार्हाटण" [३१४१७] । तस्य "रादुबखौ” [३।१२६] इत्युप् । द्विनवतिना द्रव्येण क्रीतं पुनष्ठण । अथवा द्वौ च नवतिश्च । “वा चत्वारिंशदादौ" [॥३।१६०] इत्यनात्वम् । “लिङ्गमशिप्यं लोकाश्रयत्वाल्लिङ्गस्य" [१०] इति नैकवद्भावेऽपि नपुसकत्वम् । “द्वन्द्वे धुवल्लिङ्गम्" [१।४।१०२] द्विनवत्या क्रीतम । एवं द्वे षष्ठी भूतो भावी वा द्विषाष्ठिकः । द्विषष्ठयादिशब्दो वर्षेषु सङ्खये येषु वर्तमानः कालवाची । तेन कालाधिकारविहितष्ठत्र । द्वौ संवत्सरौ भूतो भावी वा द्विसांवत्सरिकः । त्रिसांवत्सरिकः। संवत्सरग्रहणं निरर्थकम् । "परिमाणस्याखुशाणे" [५।२।२२] इत्येव सिद्धम् । तत्र अशाण इति प्रतिषेधात् परिच्छेदमात्र गृह्यते नारोहपरिणाहलक्षणम् । तेन द्विवैतस्तिकम् , त्रिवैतस्तिकमिति सिद्धम् । एवं तर्हि संवत्सरग्रहणं ज्ञापकम् । "परिमाणग्रहणेन कालपरिमाणं गृह्यते"। तेन द्वे समे अधीष्टो द्वैसमिकः। द्योरैम्न भवति तथा द्विवर्ष माणविका । "परिमाणादपि ३११२६] "रात्" [ २५] इति डीनं भवति । द्वे वर्षे भूता प्राग्वतष्ठनः “वर्षादुप् च' [३।८५] “प्राणिन्युप” [३।४।८६] । वर्षस्याभाविनि ॥शश२१॥ सङ्घयाया इति वर्तते । सङ्ख्यायाः परस्य वर्षशब्दस्य अचामोदरच ऐन्भवति हति णिति परतः यद्यभाविन्य) हत्तदैव स्यात् । वे वर्षे भूतं द्विवार्षिकम । अभाविनीति किम् ? त्रीणि वर्षाणि भावि त्रैवर्षिकं धान्यम् । ननु द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति द्विवार्पिको मनुष्य इति भाविता गम्यते कथं न प्रतिषेधः ? नैवम् ; करिष्यतीति प्रयोगे भाविता गम्यते न तु हृदों भावी । ननु मनुष्या भिधाने "प्राणिन्युप" [ ३८६] इति ठण उप कस्मान्न भवति । भूतविषये सोऽभ्युपगम्यते नाधीष्टादी। ततो “वर्षादुप्च” [३।४।८५] इति विकल्प उब् भवति । परिमाणस्याखुशाणे ॥ २२॥ सङ्ख्याया इति वर्तते । सङ्खथायाः परस्य परिमाणस्य समुदायेनाखो गम्यनानायामशाणे च द्योरचादेरचो ऐच भवति । अखुशाण इति विषयलक्षणेयमीप । द्विसोवर्णिकम् । द्वाभ्यां सुवर्णाभ्यां क्रोतम् । अार्हाहणः “कार्षापणसहस्रसुवर्णशतमानाद्वा" [३।४।२५] इति वानुप् । एवं द्वि नैष्तिकम् । त्रिनष्किकम् । बहुनैष्किकम् । “द्वित्रिबहोर्निष्कविस्तात्" [३१२८] इति वोए । द्विकोडविकम् । द्वाभ्यां कुडवाभ्यां क्रीतम् । “रादुबखौ” [३।४।२६] इत्युप् । द्विकुड़वेन द्रव्येण क्रोतं पुनष्ठण । अखुशाग इति किम् ? पञ्च लोहितानि परिमाणमत्य, पञ्च कलापाः परिमाणमस्य पाञ्चलौहितिकम् , लोहिनीशब्दस्य "वा ठण छसोः" [ठक्छसोश्व] [ वा० ] इति पुंवद्भावे रूपम् । पाञ्चकालापिकम् । “परिमाणात्सङ्ख्यायाः सङ्घसूत्राध्ययने" [३।४।५६] इति ठणः “रादुबखौं" [३।४।२६] इति नोप । द्वैशाणम् । त्रैशाणम् । “द्वित्रिभ्यामण" [३।४१३४] इत्यम् । “कुलि- जस्यापि प्रतिषेधो वक्तव्यः” [वा०] । द्विकुलिजे प्रयोजनमस्य द्वैकुलिजिकम् । प्रोष्टपदानां जाते ॥५॥२।२३॥ योरिति वर्तते । प्रोष्ठपदानां द्योरचामादेरच ऐब् भवति जाताथै हृति ञ्णिति परतः । प्रोष्ठपदाभिर्युक्तः कालः । “भायुक्तः कालः" [३।२।४] इत्यण । तत्य "उसभेदे" [३।२।५] इत्युस् । उसि युक्तवल्लिङ्गसङ्ख्यातिदेशः । प्रोष्टपदासु जातः । अण । तस्य "भेभ्यो बहुलम्" [३।३।१३] इति बहुलवच नादिहानुप् । प्रोष्ठपादो माणवकः । जात इति किम् ? प्रोष्ठपदासु भवः प्रौष्ठपदो मेघः। हृत्सिन्धुभगे द्वयोः ॥॥॥२४॥ हृसिन्धु भग इस्येषु द्युष द्वयोः पदयोरचामादेरच ऐल्भवति । सुहृदयस्येदं सौहार्दम् । “हृदयस्य हृल्लेखयारलासेषु" [४।३।१६१] इति हृद्भावः । अथवा “सुहृदुहृदौ मित्रा For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy