SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४० जैनेन्द्र-व्याकरणम् [अ० ५ पा० ५ सू० ३०-३६ एत्वं स्यात् । अकम्यकारोच्चारणसामर्थ्यात्पररूपाभावे स्वेऽको दीत्वेन सिद्धमाकारवचनं किम् ? हलन्तादपि यथा स्यात् । युष्मानाचक्षते युष्मयन्ति । तेषां युष्माकम् । तुह्योस्तातङ काशिषि ॥५॥१॥३०॥ तु हि इत्येतयोराशिष्यर्थे तातडादेशो भवति वा । जीवताद्भवान् । जीवतु भवान् । जीवतात्वम् । जीव त्वम् । तातङि डिस्करणमेवैपोब्रुव ईटश्च प्रतिषेधार्थ नत्वन्तादेशार्थं व्याख्यानात् । तेन कुरुतात् । मृष्टात् ब्रूताद्भवानिति सिद्धम् । आशिषीति किम् ? किं करोतु भवान् । कुरु त्वम् । जीवतात्वमित्यत्र "श्रतो हेः" [४॥ १९६] इति स्थानिवद्भावादुप् प्राप्नोति । नैवं “हुझल्ल्यो हेधिः " [४॥४॥६४] इत्यत्राधिकारे अतो हेरिति पुनर्हिग्रहणाद् हिरूपस्यैव हेरुब्भवति । उक्तं च "तात िडिवं संक्रमकृत्स्यादन्त्यविधिश्चेत्तच्च तथा न । हेरधिकारे हेरधिकारो नाशविधौ तु ज्ञापकमाह ॥" प्यस्तिवाक्से क्वः ॥५॥३१॥ क्वा इत्येतस्य प्य इत्ययमादेशो भवति तिसे वाक्से च । तिसेप्रकृत्य । वाक्से-उच्चैःकृत्य। नीचैःकृत्याचष्टे । तिवाक्स इति किम् ? अकृत्वा । परमकृत्वा । ____यभेऽश्ववृषयोः काचि सुक् ॥॥३२॥ यमविषये अश्व वृष इत्येतयोः क्यचि परतः सुग्भवति । अश्वस्यति बड़वा। वृषस्यति गौः। यभ इति किम् ? अश्वीयति । वृषीयति देवदत्तः । क्षीरलवणयोलौल्ये ॥११॥३३॥ क्षीरलवणयोर्लोल्ये क्यचि परतः सुम् भवति । क्षीरस्यति माणवकः । लवणस्यति उष्टः । लौल्य इति किम ? नीरीयति। लवणीयति वातकी। यभेऽश्वता इति सिद्धे गुरुनिर्देशात् "कचिदन्यत्रापि सुगसुक्च सर्वमृद्भयो लौल्ये भवति" । दधिस्यति । मधुस्यति । दध्यस्यति । मध्वस्यति इत्यादि सिद्धम् ।। आम्यात्सर्वनाम्नः सुट् ॥५॥१॥३४॥ आवर्णान्तात्सर्वनाम्न आमि परतः सुद् भवति । सर्वेषाम् । येषाम् । तेषाम् । केपाम् । सर्वासाम् । यासाम् । तासाम् । कासाम् । श्रादिति कानिर्देशः आमीत्यस्योत्तरत्र सावकाशस्य तानिर्देश प्रकल्पयति । श्रादिति किम् ? भवताम् । सर्वनाम्न इत्येव । नराणाम् । वेस्त्रयः ॥५॥१॥३५॥ त्रि इत्येतस्य त्रय इत्ययमादेशो भवत्यामि परतः । त्रयाणाम् । परमत्रयाणाम् । प्रेल्वाप्चतुरो नुट् ॥११॥३६॥ प्र इल मु इत्येवंसंज्ञकेभ्य आवन्ताच्चतुःशब्दाच्च आमि परतो नुड् भवति । प्र-देवानाम् । कवीनाम् । साधूनाम् | इल-घण्णाम् । पञ्चानाम् । मु-नदीनाम् । वधूनाम् । अाप-विद्यानाम् । बहराजानाम् । चतुर-चतुएर्णाम् । “गोरधिकारे तस्य तदन्तस्य च" [१०] इति । परमपण्णाम् । परमपञ्चानाम् । मुख्य कार्यसंप्रत्ययादिह न भवति । प्रियषपाम् । प्रियपआम् । इदिद्धोर्नुम् ॥५॥१॥३७॥ इकारेतो धो मागमो भवति । नन्दिता । नन्दितुम् । कुण्डिता । कुण्डितुम् । इदिति किम् ? पचति । धोरिति किम् ? अभैत्सीत् । सिरयं त्यः । “घिन्विकृण्व्योर च" [२।११७५] इति सनुम्कनिर्देशात्त्योत्पत्ते : प्रागेव नुम् । तेन कुएडा। हुण्डा । “सरोहलः" [२।३।८५] इत्यः सिद्धः । "उबुन्दिर" [धा०] इति ज्ञापकादिरितो नुम्न भवति । भेदनम् ।। शे मुचाम् ॥५॥१॥३८॥ शे परतो मुचादीनां नुम् भवति आगणपरिसमाप्तः । मुञ्चति । लुम्पति । विन्दति । श इति किम् ? मोक्ता । मोक्तुम् । एकस्य बहूत्वानुपपत्रोच्चादीनामिति विज्ञेयम् । शे इति योगविभागात "तृम्फादीनां नकारोड नुम् भवति । तम्फति । दृम्फति । गम्फति । उम्भति । शुम्भति । "हलुङः कित्यनिदितः” [४।४।२३] इति नखम् । पश्चान्नुम् । मस्जिनशोभलि ॥२१॥३६॥ मस्जि नश् इत्येतयोर्नुम्भवति झलादौ परतः । मङ्क्ता । मङ्क्तम् । नंष्टा । नंष्टुम् । मस्जेर्नुमि कृते "हलोऽनन्तराः स्फः" [१३] इति द्वयोस्त्रयाणां वा स्फसंज्ञा । द्वयोः स्फसंज्ञामा For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy