SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ५ पा० १ सू० ४०-४६) महावृत्तिसहितम् ३४१ श्रित्य स्फादेः सस्य खम् । नुमोऽनुस्वारपरस्वत्वे । झलीति किम् ? मजनम् । नशिता । मस्जेः "झलां जशु झशि" [५।४।१२८] इति सकारस्य दत्वम् । दस्य च चुत्वं जकारः । “रधादेः” [५।१।६३] वेट । रधिजभोरचि ॥५१॥४०॥ रधि जभ इत्येतयोः अजादौ परतो नुम् भवति । रन्धयति । रन्धकः । साधुरन्धी । रन्धं रन्धम् । रन्धो वर्तते । जम्भयति । जम्भकः । साधुजम्भी | जम्भो वर्तते । कृताकृतप्रसङ्गित्वेनैपः प्रागेव नुम् । अचीति किम् ? रद्धा । जभ्यम् । लिटीटि रधेः ॥१४॥ रधेर्नुम भवति इडादौ लिटि परतः । ररन्धिव । ररन्धिम । नुमविधानसामर्थ्यत् "हलुङः वित्यनिदितः" [४।४।२२] इति नखं न भवति । नित्यार्थोऽयं योगः। लिस्येव इडादौ नान्यस्मिन् । रधिता । रधितुम् । विपरीतो नियमः करमान्न भवति ? इडादावेव लिटीति । इह न स्यात् । ररन्धतुः। ररन्धुः। नैवं योगविभागादिष्टप्रसिद्धः। लिटीटीति योगः कर्तव्यः । तदनु रधेरिति । रधेलिटीटि नुम भवति । रधेरिति पृथकरणं किमर्थम ? लिटीटीत्यत्रेष्टनियमसिद्धिर्यथा स्यात् । लिट्यवेडादौ रधेनु मिति ।। रभोऽशब्लिटोः ॥१॥४२॥ रभो गोर्नुम् भवति अजादौ न तु शब्लिटोः । आरम्भयामि । आरम्भकः । साध्वारम्भी। प्रारम्भमारम्भम् । आरम्भो वर्तते। अशब्लिटोरिति किम् ? आरम्भते । आरेभे। अचीत्येव । आरम्भम् । अशब्लिटोरित्यत्र प्रसज्यप्रतिषेधः । नत्रः सापेक्षस्यापि गमकत्वादनुष्णभोज्यादिवत्सविधिः । लभेः ॥१४३॥ लभेः शब्लिड्वर्जितेऽजादौ नुम्भवति। आलम्भयति । आलम्भकः । साध्वालम्भी। आलम्भमालम्भम् । आलम्भो वर्तते । अशब्लिटोरित्येव । अालमते । आलेभे। अचीत्येव । लभ्यम् । पृथग्योगकरणमुत्तरार्थम् । प्राङो यि ॥५॥१॥४४॥ आङ्पर्वस्य लभेर्यकारादौ त्ये परतो नुम् भवति । पालम्भ्या गौब्राह्मणेन । श्राङ इति किम् ? लभ्यम् । यीति किम् ? आलब्धा । आलभ्य गत इत्यत्र कृतेऽपि नुमि "हलुङः नित्यनिदितः" [४।४।२३] इति नखम् । मुम्वचनं त्वन्यत्र सावकाशम् । उपात्प्रशंसायाम् ॥५॥१॥४५॥ उपात्परस्य लभेः प्रशंसायाम) नुम् भवति यकारादी। उपलम्भ्या भवता विद्या । उपलम्भ्यानि धनानि । प्रशंसायामिति किम् ? उपलभ्यमत्माद् वृषलात् किञ्चित् । गेः खघोः ॥॥॥४६|| गेरुत्तरस्य लभेर्नुम् भवति खघोः परतः । सुप्रलम्भः । दुष्प्रलम्भः । घञि-प्रलम्भः । उपलम्भः । गेरिति किम् ? ईपल्लभो लाभः । नियमार्थोऽयं योगः । गेरेव खघोः । अथ रोः खघोरेव कस्मान्न भवति 'शप उपलम्भने' [धा०] इत्यादिनिर्देशात् । ___न सुदुर्ध्या केवलाभ्याम् ॥५॥१॥४७॥ सु दुस् इत्येताभ्यां केवलाभ्यां परस्य लभेर्नु न भवति । सुलभो दुर्लभः । कृच्छाकृच्छार्थदन्यत्र घन । सुलाभो दुर्लाभः । केवलाभ्यामिति किम् ? सुप्रलम्भः । दुष्प्रलम्भः । अतिसुलम्भः । जिग्रहणानुवृत्तेः सुदुसोग्र्योर्ग्रहणम् । अतिसुलभमिति कथम् ? "अतिक्रमे चातिः" [1] इति अतेर्गिसंज्ञाऽभावात् सुः केवल एव गिः । केवलग्रहणं हि तुल्यजातीयस्य गेनिवर्तकम् । अक्रियमाणेऽपि केवलग्रहणे सुदुसोः सन्निधाने उच्यमानं कार्य कथमन्याधिकयोरपि । इदमेव ज्ञापकं क्वचित्केवलस्य सन्निधाने उच्यमानमन्याधिकस्यापि भवति । तेन "निविश" [६।२।११] इत्यत्र निविशते अभिनिविशत इति सिद्धम् । मिणमोऽगेः ॥५॥१॥४८॥ अगिपूर्वस्य लभेर्वा नुम् भवति भिणमोः परतः । अलम्भि। अलाभि । लम्भं लम्भम् । लाभ लाभम् । अगेरिति किम् ? प्रालम्भि । प्रलम्भं प्रलम्भम् । उगिदचा घेऽधोः ।।५।११४६॥ उगितां गूनाम् अञ्चतेश्च घे परतो नुम् भवत्यधोः । गोमान् । धनवान् । विद्वान् । श्रेयान् । भवान् । पचन् । पचन्तौ । पचन्तः । अञ्चतेः प्राङ् । प्राञ्चौ। प्राञ्चः। उगिदचामिति किम ? वाक । बाचौ । वाचः । धे इति किम् ? पचतः पश्य । गोमतः पश्य । अञ्चतिग्रहणं निय. For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy