SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ५ पा० १ सू० १६-२६] महावृत्तिसहितम् "अनुरक्तः शुचिर्दक्षः श्रुतवान् देशकालविद् । "वपुष्मान कान्तिमान् वाग्मी दूतः स्याद्यष्टभिर्गुणैः ॥” । "गोरधिकारे तदन्तस्य च" [१०] इति तदन्तादपि भवति । परमाष्टौ । प्रधाने कार्यसम्प्रत्ययादुसे न भवति । प्रियाष्टान इति । "उबिलः" ५ि/१६] इति उपि प्राप्ते औशारभ्यते न "सुपो धुमृदोः" [११४१४२] इति । तेन अष्टौ गुणा यस्य सोऽष्टगुणः। ओशिति सिद्धे औशग्रहणं किम् ? अष्टावाचक्षते अष्टयन्तीति । क्वियागतनिवृत्ते अष्टाविति यथा स्यात् । उबिलः ॥११॥१६॥ इल्संज्ञकादुत्तरयोर्जश्शसोरुब्भवति । पट तिष्ठन्ति । षट् पश्य। एवं पञ्च । नव । परमपञ्च । प्रधाने कार्यसम्प्रत्ययादिह न भवति । प्रियषषः । प्रियपञ्चानः । नपः स्वमोः ॥५॥१।२० नबिति नपुंसकलिङ्गं पूर्वाचार्यस्य संज्ञेयम् । तस्मादुत्तरयोः स्वमोरुब्भवति । दधि पश्य । मधु तिष्ठति। मधु पश्य। तत्कुलमित्यत्र त्यदाद्यत्वं बाधित्वा कृताकृतप्रसङ्गित्वेन नित्यत्वादुम् । नन्वत्वे कृते लक्षणान्तरेणाम्भावे सत्यनित्य उप ? नैवम् । “यस्य च लक्षणान्तरेण निमित्त विहन्यते न तदनित्यम्” [प०] इति । अतोऽम् ॥११॥२१॥ अकारान्तान्नपः परयोः त्वमोरम्भवति । धनम् । वनम् । तपरकरणं मुखसुखाथम् | मादेशे क्रियमाणे सुपीति दीत्वं स्यात् । अतिजरसं कुलं पश्येति च न स्यात । “सन्निपातलचाणो विधिरनिमित्त तद्विघातस्य' [प०] इत्यम उम्न भवति । डतरादेः पञ्चकस्य दुक् ॥५॥१॥२२॥ डतरादेः पञ्चकस्य दुगागमो भवति स्वमोः परतः । कतरत्तिष्ठति । कतरत्पश्य। एवं कतमत् । इतरत् । अन्यत् । अन्यतरत् । पञ्चकस्येति किम् ? समम् । सिमम् । डतरेण सिद्ध अन्यतरग्रहणं किमर्थम् ? अन्यतमं वनम् । अनित्यमागमानुशासनमित्पेकतरस्य न भवति । एकतरं वनम् । - युष्मदस्मदो ङसोऽश् ॥५५२३॥ युष्मदस्मदित्येताभ्यामुत्तरस्य ङसोऽश भवति । तब स्वम् । मम स्वम् । शित्करणं सर्वादेशार्थम् । डेंसुटोरम् ॥५१॥२४॥ युष्मदस्मद्भयां परस्य ः इत्येतस्य सुटश्च अमित्ययमादेशो भवति । तुभ्यम् । मह्यम् । त्वम् | अहम् । युवाम् । आवाम् । यूयम् । वयम् । त्वाम् । माम् । युवाम् । आवाम् । “युवावी द्वौं" [५।१।१५१] । “आवि" [५।१।१४७] इति दस्यात्वम् । इपि पुनः “इपि" [५।१।१४६] इत्यात्वम् । शसो नः ॥५१॥२५॥ युष्मदस्मदित्येताभ्यां परस्य शसो नकारादेशो भवति । युष्मान् । अत्मान् पातु जिनः । “परस्यादेः” [११५१] इत्यकारस्य नकारः । “स्फान्तस्य खम् [५।३।४१] इति सकारस्य खम् । "इपि" [५।१।१४६] इत्यात्वम् । “नश्च पुसि" [४।३।६१] इति नत्यं न सिध्यत्यलिङ्गत्वायुप्मदरमदोः । भ्यसोऽभ्यम् ॥११॥२६॥ युष्मदस्मद्भ्यां परस्य भ्यसोऽभ्यमित्ययमादेशो भवति । युष्मभ्यं देयम् । अस्मभ्यं देयम् । “खमादेशे" [५।११४६] इति दखम् । "एप्यतोऽपदे" [४।३।८४] इति पररूपत्वम् । अत्कायाः ॥५॥१॥२७॥ युष्मदस्मद्भयां परस्य काया भ्यसोऽदित्ययमादेशो भवति । युष्मदधीते । अस्मदधीते । उसे ॥१॥२८॥ युष्मदरमद्भयाम् परस्य ङसेरदादेशो भवति । "त्वमावेके" [५/१११५६] । त्वत् । मत् । साम प्राकम् ॥५१२६॥ युष्मदस्मद्भ्याम् परस्य साम अाकमादेशो भवति । युष्माकम् । अस्माकम् । भाविनं सुटं भूतबदुपादाय साम इति निर्देशः कृतः। आकमि कृते सुणनिवृत्त्यर्थः। कमि क्रियमाणे For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy