SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म.२ पा० १ ०१-३] महावृत्तिसहितम् १३७ धुयोगे त्याः ॥२॥४१॥ धुशब्देन ध्वर्थोऽत्र निर्दिष्टः । अभिधेये अभिधानस्योपचारात् । धूनां योगे सति अयथाकालोक्ता अपि त्याः साधवो भवन्ति । विश्वदृश्वाऽस्य पुत्रो जनिता । कृतः कटः श्वो भाविता। भाविकृत्यमासीत् । विश्व श्वेति भूतकालः जनितेत्यनेन भवि यतकालेन ( अभिसम्बध्यमान साधुर्भवति । इहोपसर्जनभूसं सुबन्तं प्रधानभूतस्य मिङन्तस्य कालमनुवर्तते । धोरिति वर्तमाने पुनधु ग्रहणं अस्तिभूजनिपरिग्रहार्थम् । त्य इति वर्तमाने पुनस्त्यग्रहणं त्यमात्रपरिग्रहार्थम् । गोमान् भवितेति मत्वन्तस्य वर्तमानकालस्य अयथाकालत्वेन साधुत्वम् । क्रियासमभिहारे लोट तस्य हिस्वौ वा तध्वमोः ॥४२॥ क्रियासमभिहारविशिष्टे ध्वर्थे वर्तमानाद्धोर्लोड भवति । सर्वलकारापवादः। तस्य लोये हि स्व इत्येतावादेशो भवतस्तध्वमोस्तु वा भवतः। क्रियासमभिहारे लोडिति योगविभागः कर्तव्यः । ततस्तस्य हिस्वौ भवतः। किमेवं सति लब्धम् ? अन्यत्र यो लोडादेशौ हिस्वी प्रसिद्धौ ताविह भवतः । तेन मविधिदविधिव्यतिकरो न भवति । वा तध्वमोरित्यत्र ध्वमा सह निर्देशात्तशब्दस्य थादेशस्य वहोर्ग्रहणम् । लुनीहि लुनीहि इत्येवाहं लुनामि । श्रावां लुनीवः। वयं लुनीमः । लुनीहि लुनीहि इत्येव त्वं लुनासि । युवां लुनीथः । यूयं लुनीथ । तशब्दस्य तु वा भवति । लुनीत लुनीत इत्येवं यूयं लुनीथ । लुनीहि लुनीहि इत्येवायं लुनाति । इमो लुनीतः । इमे लुनन्ति । भूते लुनीहि लुनीहि इत्येवाहमलाविषम् । आवामलाविष्व । वयमलाविष्म । एवं युष्मदन्ययोरपि । वय॑ति-लुनीहि लुनीहीत्येवाई लविष्यामि । श्रावां लविष्यावः । वयं लविष्यामः। एवं युष्मदन्ययोरपि । अधीष्व अधीष्व इत्येवाहमधीये । श्रावामधीवहे । वयमधीमहे । एवं युष्मदन्ययोरपि योज्यम् । ध्वमस्तु पक्षे श्रवणम् । अधीध्वमधीध्वमित्येवं यूयमधीचे। भते-अधीष्व अधीष्व इत्येवाहमध्यगीषि । श्रारामध्यगीष्वहि । वयमध्यगीष्महि । एवं सर्वत्र । वय॑ति-अधीष्व अधीष्व इत्येवाहमध्येष्ये। श्रावामध्येष्यावहे । वयमभ्येष्यामहे । एवं युष्मदन्ययोरपि । एवं शेषेष्वपि लकारेषु योज्यम् । द्वित्वमपेक्ष्य लोड क्रियासमभिहारस्य द्योतकः। धुयोग इति वर्तते । प्रत्यासत्तेर्यत एव लोट विधीयते तस्यैवानुप्रयोगः कालास्मदायकत्वादीनामभिव्यक्तये क्रियते । प्रचये वा ॥२४॥३॥ प्रचयः समुच्चयः । स चैकस्मिन् द्विप्रभृतेरध्यावायः। प्रचये उपाधो वा लोड भवति तस्य हिस्वावादेशौ भवतस्तध्वमोस्तु वा । अयं सर्वलकारप्राप्तौ विकल्पः। कर्मप्रचयो ग्राममट नगरमट गिरीमट इत्येवाहमटामि । श्रावामटावः । वयमटामः। ग्राममट नगरमट गिरिमट इत्येवं त्वमटसि । युवामटथः। यूयमटथ। तशब्दस्य तु वा-ग्राममटत नगरमत गिरिमटत इत्येव यूयमःथ। ग्राममट नगरमट गिरिमट इत्येवायमटति । इमो अटतः। इसे अटन्ति । वाचनात् ग्राममटामि नगरमठामि गिरिमटामि इत्येवाहमयामि । श्रावामटावः । वयमटामः। एवं युष्मदन्ययोरपि । एवं भूते वय॑ति सर्वलकारेषु योज्यम् । दभाग्भ्यः । जैनेन्द्रमधीष्व तर्कमधीष्व गणितमधीष्व इत्येवाहमधीये । श्रावामधीवहे । वयमधीमहे । जैनेन्द्रमधीष्व तर्कमधीष्व गणितमधीष्व इत्येव त्वमधीषे । युवामधीयाथे। यूयमधीध्वे : ध्वमस्तु वा-जैनेन्द्रमधीध्वं तर्कमधीध्वं गणितमधीध्वं इत्येव यूयमधीध्वे । जैनेन्द्रमधीष्व तर्कमधीष्व गणितमधीष्व इत्येवायमधीते । इमौ अधीयाते । इमे अधीयते । वावचनात् जैनेद्रमधीये गणितमधीये तर्कमधोये इत्येवाहमधीये । श्रावामधीवहे। वयमधीमहे । एवं भूते वय॑ति सर्वलकारेषु योज्यम् । कर्तृ समुच्चये देवदत्तोऽद्धि जिनदत्तोऽद्धि गुरुदत्तोऽद्धि इत्येव वयमोदनमः । देवदत्तोऽद्धि जिनदत्तोऽद्धि गुरुदत्तोऽद्धि इत्येव यूयमोदनमत्थ । देवदत्तोऽद्धि जिनदत्तोऽद्धि गुरुदत्तोऽद्धि इत्येव इमे श्रोदनमदन्ति । कर्तृ समुच्चये द्विवचन बहुवचनं वा भवति एकस्य समुच्चयाभावात् । क्रियासमुच्चये। प्रोदनं भुत्व सक्लन् पिब धानाः खाद इत्येवाहमभ्यवहरामि । श्रावामभ्यवहरावः। वयमभ्यवहरामः । बहूनां क्रियाए समुच्चये सामान्यप्रयोगोऽभिधानवशात् । एवं सङ्करसमुच्चयोऽप्यूह्यः । 1योऽप्यभ्यूयः १०, ब०, स.। १८ For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy