SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र च्याकरणम् [अ० २ पा० ३ सू० १४५-१५२ आवश्यकाधमय॑योर्णिन् ॥२॥३॥१४६॥ अवश्यं भाव अावश्यकम् । मनोशादिपाठादुञ् । अधमम् ऋणमस्य अधमर्णः: तद्भाव श्राधमर्यम । श्रावश्यकाधमर्यविशिष्टे त्यार्थे कर्तरि णिन् भवति । अवश्यंहारी मयूरव्यंकादित्वात्सविधिः। शतंदायी। सहस्रदायो। निष्कदायो "आधमण्ये चेन:' [१४७४] इति कर्मणि तायाः प्रतिषेधः। व्याः ॥२॥३॥१४७॥ आवश्यकाधमर्ययोरिति वर्तते । अावश्यकाधमर्ययोप्संज्ञा भवन्ति । सर्वत्यापवादेन गिना व्यसंज्ञा बाधिता इति पुनर्विधीयन्ते । भवता खलु अवश्यं धर्मः कर्तव्यः । करणीयः । कृत्यः । कार्यः । श्राधमण्य भवता खलु निष्को दातव्यः । देयः । योगविभाग उत्तरार्थः । शकि लिङ् च ॥२॥३॥१४८॥ शकीत्यर्थनिर्देशः । शन्नोत्यर्थविशिष्टे ध्वथै लिङ भवति चकाराद् व्याश्च । भवता खलु विद्या अध्येतव्या । अध्ययनीया । श्रध्येया । भवान् खलु विद्यामधीयीत । भवान् हि समर्थः। लिङ, सर्वापवाद इति (चकारेण ) व्यानामनुकर्षणं क्रियते । यदि शकीति प्रकृत्यर्थविशेषणम् | शक्नुयादित्यत्र लिङ न प्राप्नोति प्रकृत्यैवाभिहितत्वात् शक्यर्थस्य । नैष दोषः । सामान्यविशेषभावेन भेदाभ्युपगमात् । यथा एषितुमिच्छति एषिषिषति । ___ आशिषि लिङ लोटौ ।।२।३।१४६॥ इष्टस्याशंसनमाशीः । अतएव निपातनादिह इकारः। श्राशीविशिष्टेऽर्थे वर्तमानाद्धोलिङलोटौ भवतः । जीव्यात् । जीव्यास्ताम् । जीव्यासुः । जीवतु । आशिषीति किम् ? जीवति यदि पथ्याशी। निचलौ खौ ॥२।३।१५०॥ आशिषीति वर्तते । आशिष्यर्थे क्लिचक्तौ त्यौ भवतः खुविषये। चकारः "न तिचि दीश्चा' [10/10] इति विशेषणार्थः । तनुतात् तन्तिः। सनुतात् सातिः। भवताद्भतिः । कृतः क्लिचा विशेषविहितेन बाध्येरन्निति पुनर्विधीयन्ते । देवा एनं देयासुरिति देवदत्तः। देवा एनंशृण्वन्तु देवश्रुतः। माङिलुङ ॥२॥३॥१५१॥ माङि वाचि लुङ, भवति । सर्वलकारापवादः । मा कार्षीरधर्मम् | मा हार्षीत्परस्वम् । ङ्कारः प्रतिषेधवाचिनो माङ शब्दस्य ग्रहणं यथा स्यादित्येवमर्थः ।। सस्मे लङ च॥२।३.१५२॥ सह स्मशब्देन वर्तते सस्मः । तस्मिन् माङि वाचि लङ् भवति लु च । मा स्म क्रुध्यत् । मा स्म हरत् । मा स्म हार्षीत् । इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः समाप्तः । -चिरं जीव्यात् मु०। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy