SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३८ जैनेन्द्र-व्याकरणम् [अ० २ पा० ४ सू० ४-१२ निषेधेऽलं खल्वोः तवा ||२|४|४|| वेति वर्तते । श्रलं खलु इत्येतयोर्निषेधवाश्विनेर्वाचोर्धोः क्त्वात्यो भवति । अलं कृत्वा । श्रलं बाले रुदित्वा । “मिनाऽमैव” [१1३1८३] इति नियमात् वाक्सो न भवति । निषेध इति किम् ? अलंकारः । श्रलंखल्वोरिति किम् ? मा कार्षीः । वेत्येव । श्रलं रोदनेन । 'प्रकृत्यादिभ्य उपसंख्यानम्" [ वा० ] इति भा । Acharya Shri Kailassagarsuri Gyanmandir माङो व्यतिहारे || २|४|५|| माङो व्यतिहारेऽर्थे क्त्वा भवति वा । परकालत्वादप्राप्तः क्त्वा विभाष्यते । प्रमित्य याचते । श्रवमित्य हरति । "वेङ : " [ ४|४|६६ ] इतीत्वम् । वेत्यधिकारात् याचित्वा श्रपमयते । हृत्वा पयते । मेङः कृतात्वस्य निर्देशो ज्ञापकः -- "नानुबन्धकृतं हलन्तत्वम्" [ परि० ] | I परावरयोगे || २|४|६ ॥ परावराभ्यां योगे गम्यमाने घोः तवा भवति । वेति वर्तते । संबन्धिशब्दवात् परेण पूर्वस्य योगे । अप्राप्य नदीं पर्वतः । परया नद्या युक्तः पर्वतः प्रतीयते । श्रवरेण योगे परस्य क्तत्वा । अतिक्रम्य पर्वतं नदी । श्रवरपर्वत योगविशिष्टा परा नदी प्रतीयते । वावच नाल्लडादयो भवन्ति । न प्राप्नोति नदी पर्वतः । श्रतिक्रामति पर्वतं नदी । परका ककर्तृकात् ॥२२४॥७॥ परः कालो यस्याः सेयं परकाला क्रिया, तया एककर्ता यस्य सामर्थ्यात् पूर्वकालक्रियाभिधायिनः स तथोक्तः । तस्माद्धोः क्त्वा भवति । स्नात्वा भुङ्क्ते । स्नात्वा भुक्त्वा पीला व्रजति । एककर्तृकादिति किम् ? भुक्तवति देवदत्ते गच्छति जिनदत्तः । परकालग्रहणं किम् ? सामर्थ्यात् पूर्वकाल क्रियाभिधायिनो यथा स्यादिह मा भूत् । भुङ्क्ते च पिवति च श्रास्ते च जल्पति च इहापि कथञ्चित् पूर्व कालत्वविवक्षास्ति । व्यादाय स्वपिति । संमील्य हसति इति । वेत्यधिकरात् । भुङ्क्ते शेते च । म चाभीक्ष्ये ॥ २४८ ॥ परकालैककर्तृकादिति वर्तते । मुहुर्मुहुर्वृत्तिराभीक्ष्ण्यम् । एतच्च प्रकृत्यर्थविशेषणम् । परकालैककर्तृकात् णमित्ययं त्यो भवति त्वात्यश्च । श्राभीक्ष्ण्ये - भोजंभोजं व्रजति । भुक्त्वा भुक्त्वा व्रजति । पायं पायं गच्छति । पीत्वा पीत्वा गच्छति । क्त्वाणमौ द्वित्वमपेक्ष्याभीक्ष्ण्यं द्योतयतः । पूर्वेण त्वात्ये सिद्धे णमर्थ वचनम् । इह वेति निवृत्तम् । उत्तरत्र वाग्रहणात् । I म यदनाका ||२४|६ ॥ यच्छन्दे वाचि तवाणमौ न भवतोऽनाकाङ्क्ष सति वाक्ये । अनन्तरव्यवहितभेदाभावात् पूर्वसूत्रविहितो अनन्तरश्च त्वा निषिध्यते णम् च । यदयं भुङ्क्ते ततो गच्छति । यदयं शेतॆ ततोऽधीते । अनाकाङ्क्ष इति किम् ? यदयं भुक्त्वा व्रजति । अधीत एव ततः परम् । अत्र पूर्वोत्तरक्रियाभ्यां अतिरिक्तमध्ययनं काङ्क्षते । वा प्रथमपूर्वे || २|४|१०|| श्रभीक्ष्ण्य इति निवृत्तम् । "परका लैककर्तृकातू" [२२४७] इत्यनेन त्वात् प्राप्ते विभाषेयम् । श्र प्रथम पूर्वं इत्येतेषु वातु क्त्वायमौ वा भवतः । अग्रे भोजं ततो ददाति । अग्रे भुक्त्वा ततो ददाति । प्रथमं भोजं ततो ददाति । प्रथमं भुक्त्वा ततो ददाति । पूर्व भोजं ततो ददाति । पूर्वे भुक्त्वा ततो ददाति । "झिनामैव" [११३८३] इत्यत्रैवकारोपादानात् केवलेनैवामा विहितेन बाक्सो भवति नान्यसहितेन । वावचनालादयोऽपि भवन्ति । श्रग्रे भुङ्क्ते ततो ददाति । प्रथमं भुङ्क ततो ददाति । भुङ्क्ते ततो ददाति । कर्मण्याक्रोशे कृञः खमुम् ||२|४|११|| कर्मणि वाचि आक्रोशे गम्यमाने कृञः खमुञ भवति । चोरोऽसीत्येवमाक्रोशति चोरङ्कारमाक्रोशति । दस्युङ्कारमाक्रोशति । क्त्वाऽपवादोऽयम् । श्राक्रोश इति किम् ? चोरं कृत्वा गच्छति । नात्राऽक्रोशसंपादनार्थ चोरग्रहणम् । स्वादुमि णम् ||२|४|१२|| स्वादुमीत्यर्थनिर्देशः । स्वाद्वर्थेषु वातु कृञो णम् भवति । परकालै कक - का दिति वर्तते । स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारं भुक्ते । लवणङ्कारं भुङ्क्ते । स्वादुमीति णमसन्नियोगे For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy