SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ३०० महावृत्तिसहितम् | इति ज्ञानार्थस्यैव । भिच्छिदारात्मकर्म्मणि कुर इष्यते भिदुरं काम् । छेदुरा रज्जुः ॥ सृजीरानशः क्वरप् ॥ १४६ ॥ सृजि इण् नश् इत्येतेभ्यः करपू भवति । सृत्वरः । जित्वरः । इत्वरः । नश्वरः । नश्वरी ॥ गत्वरः ॥ १४७ ॥ गत्वर इति निपात्यते गमेः करप् मकारस्य खं निपात्यते । गत्वरः । गत्वरी || नमिकम्पिस्म्यजस्कम हिंसदीपो रः ॥ १४८ ॥ नमि कम्पि स्म अजस कम हिंस दीप इत्येतेभ्यो रो भवति । नमेरात्मकर्म्मण्यपि । नम्रं काष्ठम् । नम्रो देवदत्तः । कम्प्रा शाखा । स्मेरं मुखम् । जस्यतेनञपूर्वात् अजस्रं ज्ञानं भावयामः । कम्रा युवतिः । हिंस्रः पापमेति । दीप्रो मणिः । कम्पश्च रापर्थत्वात् कमदी प्योरनुदातेत्वात् युच प्राप्तः ॥ सनाशंसभिक्ष वः ॥ १४६ ॥ सन्नन्त आशंस भिक्षु इत्येतेभ्य उत्यो भवति । चिकीर्षुः । जिहीर्षुः । आङ शसि इच्छायामित्यस्य श्राशंसुः । भिक्षुः ॥ विन्द्विच्छू ॥ १५० ॥ बिन्दु इच्छु इत्येतौ शब्दौ निपात्येते । वेत्तेरुकारः नुमागमश्च निपात्यते विन्दुः । इच्छतीत्येवंशील इच्छुः । उश्छत्वं च निपात्यते ॥
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy