SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । २६४ आदरी । क्षयी। विश्रयी । अत्ययी । वमी । अव्य थी। अभ्यमी॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य पालुः ॥ १४१ ॥ स्पृहिप्रभृतिभ्यो धुभ्यः पालुर्भवति । स्पृहयालुः गृहयालुः । पतयालुः । एते चुरादिष्वदन्ताः । दयालुः निद्रालुः । तन्द्रालुः । तन्नित्तिनिपातनमाविषये न भवति । श्रद्धालुः॥ इह शीङा ग्रहणं कर्तव्यम् । शयालुः॥ दाधेट्रिशदसदो रुः ॥ १४२ ॥ दा घेट सि शद सद इत्येभ्यो हर्भवति । दा इत्य विशेषेण ग्रहणम् । दारुः । धारु वत्सोमातरम् । नशि तेत्यत्र उकारप्रश्लेषात् तदन्तविधिना तायाः प्रतिषेधः सेरुः । शदुः। सद्रुः। यत्वात्मकर्मणिघतेदीर काष्ठं तद्णादिषु द्रष्टव्यम् । सघस्यदः क्नरः ॥ १५३ ॥ समरः । घस्मरः । अझरः । अनैनवादेः घसभावो निपात्यते ॥ भञ्जभासमिदा घुरः ॥ १४४ ॥ भञादिभ्या घुरो भवति । भञ्जरात्मकर्मण्यभि. धानं भङ्गरं काष्ठम् । भासुरं ज्योतिः । मेदुरं मुखम् ॥ विद्भिच्छिदः कुरः ॥ १४५ ॥ विद् भि छिद् इत्येतेभ्यः कुरो भवति । विदुरः -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy