SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २९८ महात्तिसहितम् । जपिदंशिम्यां लुपसदचरजपजभदहादसोगह इति पङजपजभदहदशभक्षपसामितिचस्यनुगमः ॥ जागुः ॥ १३६ ॥ जागुरूको भवति । जागरूकः ॥ लषपतपदस्थाभूवषहनशकमगम उकज ॥१२॥ लषादिभ्यः उकञ् भवति । अपलाषकं नीचसङ्गतम् । अपेचलष इति वचनात् घिनिणपि भवति । प्रपा तुका गर्भाः। उपपादुकाः देवाः । उपस्थायुको गुरुन् । प्रभावुकः । प्रवर्षकः। श्राघातुकः । शृणोते शासकः । कामुका वन्यस्य स्त्रियो भवन्ति । भष्भतेत्यादिना कर्मणि ताया प्रतिषेधे प्राप्ते उकप्रतिषेधः इत्युक्तः । आगामुकः स्वगृहम् ॥ जल्पभिक्षकुट्टलुण्टङष्टाकः ॥ १३८ ॥ जल्पादिभ्यो धुभ्यष्टाको भवति । जल्पाकः। जल्पाकी। अकर्मकविवक्षायां रुचलार्थाद्धेयुजिति युच् प्राप्तः । भिक्षाकः । अनुदातेता युच् प्राप्तः । कुटाकः । लुण्टाकः । बराकः॥ प्रे सृजोरिन् ॥ १३६ ॥ प्रपूर्वाभ्यां सृजुभ्यां इन् भवति । प्रसवी । प्रजवी ॥ परिभूजिदक्षिवित्रीण्वमाभ्यथाम्यमः ॥१४॥ इनिति वर्तते । परिभू जि दक्षि विश्रा इण वम अव्यथ अभ्यम इत्येतेभ्य इन् भवति । परिभावि । जयी।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy