SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । १३३ । खा ॥ ३८ ॥ खुविषये ईवन्तं सुबन्तेन सह षसो भवति । अरण्येतिलकाः। वृत्तिपदेन संज्ञा गम्यत इति नित्यः सविधिः। ईपोऽहल इत्यनुप । एवमरण्येमाषकाः । वनेकसेरुकाः। वनेवल्वजकाः। पूर्वाह्नस्फोटकाः । कूपेपिशाचिकाः। तनाहोरात्रभेदाः ॥ ३९ ॥ भेदा अवयवाः । क्तान्तेन सह अहोरात्रभेदा ईवन्ताः षसो भवति । पूर्वाह्नकृतम् । अपराह्नकृतम् । पूर्वरात्रभुक्तम् । अपररात्रभुक्तम् । भेदग्रहणं किम् । उलू. खलैराभरणैः पिशाची यदभाषत । एतत्तु ते दिवा नृत्त रात्रौ नृत्तन्तु द्रक्ष्यसि । तत्र ॥ ४० ॥ तेनेति वर्तते। तत्रेत्येतत् क्तान्तेन सह षसो भवति । तबकृतम् । तत्रभुक्तम् । तत्रपीतम् । ऐकपचं प्रयोजनम् । क्षेपे ॥ ४१॥ क्षेपः कुत्सा। क्षेपे गम्यमाने ईबन्तं तान्तेन सह षसो भवति । कृद्ग्रहणे तिकारकपूर्वस्यापि । अवतप्तेनकुलस्थितं एतत् । कार्येष्वनवस्थितत्वं तवेदमित्यर्थः । षे कृति बहुलमित्यनुप । एवमुदकेविशीर्ण भस्मनिहुतम् । निष्फलं तवेदमित्यर्थः। ध्वाङ्गैः ॥ ४२ ॥ क्तेनेति निवृत्तम् । क्षेप इति वर्तते । बहुवचनादर्थनिर्देशः। ध्वासवाचिभिः सुबन्तं षसो भवति क्षेपे ।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy