SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Anomuskan महात्तिसहितम् । तीर्थे ध्वाज इव तीर्थध्वाक्षः। वृत्ताविवार्थस्यान्तर्भावः। तीर्थकाकः । श्राडवायसाः। अनवस्थित एवमुच्यते । ध्वारित्यर्थनिर्देशात्तत्सदृशानामपि ग्रहणमिति केचित् । तीर्थश्वा । तीर्थसारमेयः। तीर्थमृगालः । क्षेप इति किम् । तीर्थे ध्वाडो वास्यते। पात्रेसमितादयश्च ॥ ४३ ॥ क्षेप इति वर्तते । पात्रोसमितादयश्च शब्दा गणपाठादेव निपातिताः षसंज्ञा भवन्ति क्षेपे । पात्रे एव समिताः पात्रेसमिताः । पात्रेबहुलाः। न कचित्कार्य इति क्षेपो गम्यते । निपातनादनुप् । उदुम्बरे मशक इव उदुम्बरमशकः । उदुम्बरकृमिः । कूपकच्छपः। अवटकच्छपः । कूपमण्डूकः । उदपानमण्डूकः । नगरकाकः । नगरवायसः। एतेष्विवार्थी वृत्तावन्तर्भूतः । मातरिपुरुषः । अयुक्तकारीत्यर्थः। पिण्डीशूरः । निरुत्साह इत्यर्थः ।। गेहेक्ष्वेडी । गहेनर्दी । गेहेनी । गेहेविजिती। गेहेव्याडः । गर्भेतृप्तः । गर्भदृप्तः । पाखनिकवकः । गोष्ठेशूरः । गोष्ठेविजिती । गोष्ठेक्ष्वेडी । गेहेशूरः। गेहेमेही। गेहेदासः । गोष्ठेपटुः । गोष्ठेपण्डितः। गोष्ठेनगल्भः। कर्णेचुरुचुराः। चकारो ऽवधारणार्थः। पासत्रेमितादय एव न वृत्त्यन्तरं लभन्ते । परमाः पात्रेसमिताः । अत एव क्तान्तेनापीह रत्तिः सार्थिका अन्यथा क्षेप इत्यनेनैव सिडा स्यात् । पूर्वकालैकसर्वजरत्पुराणनवकेवलं यश्चैकाश्रये ॥४४॥ meas unamAINon
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy