SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 5669690069909969696DÉIG त्वान्मूर्तम् , क्र प्रवर्तयेदित्याह-'आहारपानादिक-भोजनपानादिषु. कथंभूने आहारपानादिके ? 'इन्द्रियार्थके-इन्द्रियविषय-R रूपे, पुनः क्व प्रवर्तयेदित्याह-'शुभाशुभारम्भककर्मणि'-शुभाशुभोत्पादके कार्य ॥२३॥ मूलम्-चेदिन्द्रियैः 'पाणिमुखैरथाङ्गैः, समाः क्रियाः स्युभविनं विनैव । तदा समस्ताः कुणपैरजन्तुकैः, क्रियाः क्रियन्ते न कथं करेन्द्रियैः ॥२४॥ टीका-जीवाभावे न प्रवृत्तिरित्याह-चेदिद्रियरित्यादि 'भविनं विनैव-जीवमंतरेणैव, 'इंद्रियैः-श्रोत्रादिभिः 'अथेतिसमुच्चये, 'अब' चेत्, 'पाणिमुखै'-हस्तादिभिः 'अंग'-अवयवैः, 'समा'-सर्वाः, "क्रिया:-चेष्टाः, 'स्यु'-भवेयुः, 'तदा'B] तर्हि, 'अजन्तुकै'-जीवरहितैः, 'कुणपैः-मृतकैः, 'करेन्द्रियैर-हस्तादींद्रियः, 'समस्ताः'-सर्वाः, 'क्रिया' चेष्टाः, 'कथं न क्रियन्ते "-कुतो न विधीयन्ते ? यदि जीवं विनैव करादिभिः सर्वाः क्रिया भवितुं शक्नुयुस्तहि जीवरहिता मृतकाः करादिभिः ॐ सर्वाः क्रियाः कथन कुर्वन्तीति भावः ॥२४॥ मूलम्-सिद्धं तथैतद्यदशस्त'शस्तं, कर्मात्मनैव क्रियते न 'चारैः।। अरूपिणा रूपि ततश्च कर्म, सूक्ष्मं कथं नाम न गृह्यते तत् ॥२५॥ १. हस्तादिकैः । २. अवयवैः । ३. भवोऽस्यास्तीति भवी जीवस्तं । ४. मृतकैः । ५. अशस्तं कपायमत्सरनिन्दाद्रोहशोकमोहादिकं कर्म तथा मलोज्झनादि वा कर्म, शस्तं च कर्म शानादिरसग्रहणध्यानादिसम्पादनगुणग्रहणभगवत्स्मरणाधनेकं । ६. अङ्गे कर्णादिकेन्द्रियरूप: पाणिपादादिकैश्चावयवैरिति । 3069956GGGGGGOGIG9698:966
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy