SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 100069600999090909090909090 टीका-फलितमाह-सिद्धमित्यादिना 'तथेति-तथा च सतीत्यर्थः, 'एतद्-वक्ष्यमाणं, 'सिद्ध-सिद्धिमुपागतम्, किं तत् सिद्धमित्याह-यदित्यादि 'यत्'-अत्र, 'अशस्तशस्तं कर्म'-शुभाशुभम् कृत्यम् , 'आत्मना'-जीवेन, 'एव' "क्रियते'-विधीयते, 'न चाडै कर्णादिकेन्द्रियरूपैः पाणिपादादिकैश्चावयवैन क्रियत इति भावः, 'ततश्चेति'-तथा च सति, 'अरूपिणा'-रूपरहितेन जीवेन, 'तत्'-पूर्वोक्तं कर्म 'कथं नाम न गृह्यते ?'-कुतो नादीयते आदीयत एवेत्यर्थः, कथंभूतं कर्म ? 'रूपि-पुद्गलमयत्वान्मूम्, पुनः कथंभूतं ? 'सूक्ष्म-स्थौल्यविरहितम् ॥२५॥ मूलम्-ध्यानी पुनषाद्यगतेन्द्रियैर्विना, करोति कर्माणि यथेप्सितानि यत् । । जिहां विना ध्यायति मानसं जपं, शृणोति तं तं श्रवसी ऋते तदा ॥२६॥ टीका-इन्द्रियादिभिर्चिनापि जीवस्य कर्मविधाने शक्तिरस्तीति दृष्टान्तः स्पष्टीकरोति-ध्यानीत्यादिना 'पुन' रितिसमुच्चये, 'ध्यानी'-ध्यानकर्ता, 'यत्'-यस्मात् कारणात् , 'बाह्यगतेन्द्रियैर्विना' बायेंद्रियाण्यंतरेणाऽपि, 'कर्माणि'-कार्याणि, I KI 'करोति'-विधत्ते, कथंभूतानि कर्माणि ? 'यथेप्सितानि'-यथाभीष्टानि स्वाभिलपितानीति, यावत् पुनः किं करोतीत्याह-'जिह्वां| यिना'-रसनामंतरेणापि, 'मानसं जपं'-मनः संबंधि जपनम् , 'ध्यायति'-चिन्तयति, पुनः किं करोतीत्याह-शृणोतीत्यादि 'तदा'। तस्मिन् काले, जपसमये इत्यर्थः, 'श्रवसी ऋते'--कौँ पिनाऽपि, 'तं तं शृणोति'-जपादिकमारम्भमाकर्णयीत ॥२६॥ १. जापादिकं आरम्भ । २. तस्मिन्जापसमये अन्तरात्मनैव श्रवसी कर्णादि विनैव शृणोत्ययमात्मा । GEOGHCGC960CbCGGGGGGBEBECC
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy