SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Selge96999999969996869 द्रव्याणि 'रूपीणि गुरूणि तद्वत, सूक्ष्माणि वा लाति पुरान्तरासुमान् । कमोणि तत् सूक्ष्मतमानि नो कथं, गृहात्ययं तैजसकामणाङ्गन्तः ॥२२॥ टीका-कर्मग्रहणे पुनरपि पुष्टिमाह-यदीत्यादिना यदि 'एष'-पूर्वोक्तो, 'जीव'-आत्मा, 'कृत्यं करोति' कार्य विदधाति, कथंभूतो जीवः ? 'ईदृश'-उक्तस्वभाव, पुनः कथंभूतः ? 'अपौद्गलिकोऽपि'-पुद्गलाजन्योऽपि, पुनः कथंभूतः ? 'अमूतोमूर्तिरहितः पुनः कथंभूतः ? 'देहस्य मध्ये स्थित एवं'-शरीराभ्यंतरे स्थितिमानेव, किं कृत्वा कार्य करोतीत्याह-'सर्वमङ्ग परिव्याप्येति'-सर्वशरीरावयवान् व्याप्येत्यर्थः, 'तद्वत्'-तथैव, 'पुरान्तरासुमान्'-शरीरमध्यस्थजीव, 'रूपिणि'-रूपयुक्तानि, 'गुरूणि'-महांति द्रव्याणि, आहारपानादीनि वस्तूनि 'सूक्ष्माणि वा द्रव्याणि'-रागद्वेषादीनि, 'लाति-गृह्णाति, तत् हि 'तेजसकार्मणांगत'-तैजसकार्मणशरीरतः, तैजसकार्मणशरीरविशिष्ट इतिभावः 'अयं-जीवः, 'सूक्ष्मतमानि'-अतिशयेन सूक्ष्माणि कर्माणि, 'कथं नो गृह्णाति'-कथन्नाददते आददतैवेतिभावः ॥२१-२२ मूलम्-जीवः पुना रूपकरादिवर्जित, ईदृग्वपूरूपि कथं प्रवर्तयेत् । __ आहारपानादिक इन्द्रियार्थके, शुभाशुभारम्भककर्मणीह ॥२३॥ टीका-जीवः पुनरित्यादि 'इह'-अस्मिन् संसारे, 'जीव'-आत्मा, पुनः 'ईदृग्' 'वपुः'-शरीरं, 'कथं'-केन प्रकारेण, प्रवर्तयेत्'-प्रवृत्तिं नयेत् , कथंभूतो जीवो ? 'रूपकरादिवर्जितः'-रूपेण हस्तादींद्रियैश्च विहीनः, कथंभूतं वपुः १ रूपि पुद्गलमय १. किं किं कृत्यं करोतीत्याह । गुरूणि द्रव्याणि आहारपानादीनि । २. सूक्ष्माणि रागद्वपादानि । ३. देहमध्यजीवः । 36499869899999999969689999€ --
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy