SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ८० जैन-शिलालेख संग्रह हल्सी-संस्कृत। -[?]सिद्धम् ॥ स्वस्ति खामिमहासेनमातृगणानुध्याताभिषिक्तानाम् 'मानव्य-सगोत्राणाम् हारितीपुत्राणाम् प्रतिकृतस्वाध्यायचच्चिकानाम् कदस्मा(म्बा)नाम्महाराज: श्रीहरिवा बहुभवकृतैः पुण्यै राजश्रिय निरुपद्रवाम् प्रकृतिषु हित प्राप्तो व्याप्तो जगद्यगसाखिलम् श्रुतजलनिधि विद्यावृद्धप्रदिष्टपथि स्थित. खवलकुलिगाघातोच्छिन्नद्विपद्वसुधाधर [॥ ] स्वराज्यसवत्सरे चतुत्थें फाल्गुणशुक्लत्रयोदश्याम् उच्चशृङ्ग्याम् सर्वजनमनोहादवचनकर्मणा सपितृव्येण शिवरथनामधेयेनोपदिष्टः पलाशिकायाम् भारद्वाज-सगोत्रसिंहसेनापतिसुतेन मृगेशेन कारितस्याहदायतनस्य प्रतिवर्पमाष्टाहिकमहामहसततच (7) रूपलेपनक्रियायं तदवशिष्ट सर्वसंघभोजनायेति सुद्दि (2) लि कुन्दूरविषये वसुन्तवाटकं सर्वपरिहारसयुतं कूर्चकानाम् वारिषेणाचार्यसङ्घहस्ते चन्द्रक्षान्तं प्रमुख कृन्त्रा दत्तवान् [1] य एव न्यायतोभिरक्षति स तत्पुण्यफलभाग्भवति []] यश्चैन रागद्वेपलोभमोहैरपहरति स निकृटतमा गतिमवाप्नोति [I] उक्तञ्च स्वदत्ता परदत्ता वा यो हरेत वसुन्धराम् षष्टिं वर्षसहस्राणि नरके पच्यते तु स [1] बहुभिर्व्वसुधा मुक्ता राजमिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् [10] इति
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy