SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सर्गः1] श्रीमन्मेरुतुङ्गसूरिविरचितं निःशवं 'उश्यसे त्वं जल्प्यसे, स्त्री मानिता सती गङ्गेव ईश्वर स्थापि शिरोऽधिवसति, यथा गङ्गा ईश्वरेण मानिता सती शिरोडधितष्ठौ । अत्र दन्तानां राजा राजदन्तः "राजदन्तादिषु" (सि. ३-१-१४९) अनेन राजशब्दस्य प्रामिपातः । सहसीति "पह मर्षणे" षड्, "धात्वादेः षः सो-" (सि० २-३-९८) सह । "युजादेने वा" (सि० ३-४-१८) इति विकल्पेन णिजभावः । उश्यसे इति “वशक् कान्तौ” वर ते क्यः, "वशेरयडि" (सि०४१-८३) वकारस्य वृत् उ । अधिवसतीति योगे शिर इत्यत्र "उपान्वध्यावसः” (सि. २-२-२१) अनेन आधारस्य कर्मत्वम् । अत्रातिशयोक्ति-अपहुति-उपमानार्थान्तरन्यासाः ॥७॥ पुनरपि रुक्मिणी वाक्यमाहरूपं कामस्तव निशमयन् वीडितोऽभूदनगो लावण्यं चाविम ऋभुविभुलॊचनानां सहस्रम् । तारुण्यश्रीळशिषदथ ते पुष्पदन्तौ शरद नेतारण्यप्रसवसमतां त्वं विना स्त्रीरमूनि ॥ ८ ॥ हे देवर! कामस्तव रूपं 'निशमयन्' विलोकयन् सन् 'ब्रीडितः' लज्जितोऽनङ्गोऽभूत् , अग्रे काम एव रूपवानिति प्रसिद्धिरभूत , यदा च भगवतो रूपं लोकोत्तरमात्माधिकं दृष्टं तदा तेन लजितेनाङ्गमेव त्यक्तं तदाप्रभृत्यनङ्गोऽभूत् । 'ऋभुविभुः' इन्द्रः तव लावण्यं निशमयन् लोचनानां सहस्रं 'अबिभः' अधरत् , इन्द्रस्तु लावण्यं विलोकयन् द्वाभ्यां लोचनाभ्यां द्रष्टुमक्षमत्वालोचनसहस्रं बभार । 'अर्थ' अनन्तरं तारुण्यश्रीः ते रूपलावण्ये 'व्यशिषत् विशिनष्टि स्म, किंवत् ? 'शरद्वत् यथा शरत् 'पुष्पदन्तौ' चन्द्रसूयौँ विशिनष्टि । त्वं 'अमनि' रूपलावण्यतारुण्यश्रियः स्त्रीविना 'अरण्यप्रसवसमता' अरण्यपुष्पतुल्यतां 'नेता' प्रापयिता, यथाऽरण्यपुष्पाणि कस्यापि कार्ये नाऽऽयान्ति एवं तवापि रूपलावण्य. तारुण्यानि पाणिग्रहणं विना स्त्रीभोगाभावात् व्यर्थानि भविष्यन्ति।
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy