SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् । [द्वतीयः निशमयन् अत्र णिग् स्वार्थे यथा पालयतीति, ततः "शमोऽदर्शने" (सि०४-२-२८) इतिसूत्रेण दर्शनार्थे इखो न स्यात्, तेन मिशामयन् स्यात्, परं केचित्तु दर्शनेऽपीच्छन्ति । अविभः "टुडु,गक् पोषणे च” भू, ह्यस्तनी-दिव , "अड् धातोरादि." (सि० ४-४-२९), "हवः शिति” (सि० ४-१-१२) द्विः, "ऋतोऽत्” (सि०४-१-३८) अत्, "द्वितीयतुर्ययोः प्रथमतृतीयौ (पूर्वी)" (सि० ४-१-४२) भ ब, “पृभृमाहाममिः" (सि० ४-१-५८), "नामिनो गुणो.” (सि० ४-३-१) अर्, "व्यञ्जनाहेः सश्च दः” (सि० ४-३-१८) दिलोपः । व्यशिषत् "शिष्लंप् विशेषणे" अद्यतनी-दि, "लूदित्" (सि० ३-४-६४) अ । पुष्पः० "पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौं” (अभिधानचि० का० २-३८) इति । स्वीरित्यत्र "विना ते तृतीया च” (सि० २-२-११५) इति द्वितीया । इदं रूपं च इदं लावण्यं च इयं तारुण्यश्रीश्च अमूनि "समानामर्थेनैकः शेषः” (सि० ३-१-११८) एकशेषः, "स्त्रीपुंनपुंसकानां सहवचने स्यात्परं लिङ्गम्” (लिङ्गानुशासने) इति नपुंसकलिङ्गम् । अत्रोदात्तदृष्टान्तकाव्यलिङ्गालङ्काराः ॥ ८॥ अथ जाम्बवत्याहनामेयोपक्रममिह यथा श्रायसोऽध्वा तथैवो द्वाहस्यापि सरसि तदुपज्ञं न किं देवरेति । तत्तां दैवी मृतिमपमृजन कोऽपि नूनोऽसि सार्यो हारीभूतद्विजमणिधूणिर्जाम्बवत्यप्यगासीत् ॥९॥ जाम्बवत्यपि 'इति अगासीत् एवमवादीत् । किंभूता जाम्बवती ? 'हारीभूतद्विजमणिघृणिः' हाररूपतया भूता द्विजमणीनां दन्तमणीनां घृणयः (कान्तयः) यस्याः सा । इतीति किम् ? 'इह यया श्रायसोऽध्वा नामेयोपक्रम' इह जगति यथा येन प्रकारेण प्रायसो मोक्षसंबन्धी अध्वा मार्गों नामेयस्य श्रीआदिदेवस्य उपक्रम
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy