________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७ श्री चतुर्महर्षिकथा चम्पायां कौशिकार्याख्य उपाध्यायोऽभवद् द्विजः । तस्याऽङ्गर्पिस्तथा रुद्रः, शिष्यावेतौ बभूवतुः ॥१॥ अङ्गको भद्रकस्तेनाङ्गपिस्तस्याभिधाऽभवत् । रुद्रको रौद्रहद् ग्रन्थिच्छेदकस्तत्तथाऽस्य सा ॥२॥ एषोऽर्थमन्यदा प्रेषितावुभौ गुरुणा बने । सायमङ्गर्षिः काष्ठान्यादायाऽऽयाद् ऋजुवर्त्मना ॥ ३ ॥ रन्त्या सर्व दिन स्मृत्वा, तमर्थ रुद्रकोऽचलत् । दध्यो वीक्ष्य तमायान्तमद्य निस्सारितोऽस्मि हा! ॥ ४ ॥ इतश्च यत्सपालस्य, पन्थकस्य शिशोः प्रसः । दत्त्वा ज्योतिर्यशा भक्तं, दारुभारार्दितैति च ।। ५ ॥ तां हत्वैकत्र गर्गयां, लात्वाऽस्या दारुभारकम् । एत्यान्यवत्मना रुद्रो, धुन्वन् हस्ताबदोवदत् ॥ ६ ॥ गुरो ! सुन्दरशिष्येण, तब ज्योतिर्यशा हता । स आगतो यहि निष्कासितः क्रोधाद् ययौ बनम् ॥ ७॥ चिन्तयस्तत्र सदधानाद् , जातजातिस्मृतिव्रतम् । प्रपद्य केवलं लेभे, महिमाममरा व्यधुः ॥ ८॥ अभ्याख्यानं ददौ रुद्रोऽस्मे जनेभ्योऽभ्यधुः सुराः । निन्द्यमानो जनैर्दध्यौ, रुद्रोऽदः शुभकर्मतः ॥ ९ ॥ अभ्याख्यानं मयाऽसत्य, प्रदत्तमिति चिन्तयन् । सम्बुद्धः सोऽभवत् प्रत्येकबुद्धवाग्रहीद् व्रतम् ॥१०॥ उपाध्यायः सभार्योऽपि, वराग्याद् व्रतमग्रहीत् । उत्पाद्य केवलज्ञानं, चत्वारोऽपि ययुः शिवम् ॥ ११ ॥
इति श्रीमुद्रित-ऋपिमण्डलवृत्तित उद्धताः श्री चतुर्महर्षिकथा सम्पूर्णा
绕路路路路器漆器蒸蒸蒸蒸蒸蒸蒸蒸茶器茶器茶藥藥器强
Fer Private and Personal Use Only