SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥९२॥ *6*6808686 www.kobatirth.org मांसं तेऽभूत् प्रियं पूर्वं स्वमांसमिति खादितः । स्मारयित्वा सुरां चैव, वसा-रक्तानि पायितः ॥ ४२ ॥ एवं नानाविधास्तीवाः, परमाधार्मिकैः कृताः । सोढा मयाऽतिभीतेन, वेदना नरकेऽन्वहम् ॥ ४३ ॥ मनुष्यलोके यादृक्षा, दृश्यन्ते तीव्रवेदनाः । ताभ्योऽनन्तगुणास्तातानुभूता नरके नु (तु) ताः ॥ ४४ ॥ एवं भवेषु सर्वेष्वनुभृता वेदना मया । सुखोचितत्वं किं तस्य प्रव्रज्या दुष्कराऽथवा ॥ ४५ ॥ पितरावूचतुस्तं तु, प्रव्रज स्वेच्छयाऽऽत्मज ! । निष्प्रतिकर्मता तत्र, श्रामण्यं दुष्करं परम् ॥ ४६ ॥ सोऽवोचदेवमेवैतत् पितृभ्यां यदिहोदितम् । प्रतिकर्म परं कोऽत्र, कुरुते मृगपक्षिणाम् १ ॥ ४७ ॥ एकभूतो यथाऽरण्ये, चरति स्वेच्छया मृगः । तथा धर्मं चरिष्यामि, तपसा संयमेन च ॥ ४८ ॥ स्यात् मृगस्य यदातङ्को, महारण्ये प्रजायते । तिष्ठन्तं तरुमूलेषु, कञ्चैनं हि चिकित्सति १ ॥ ४९ ॥ को वा तस्योपधं दत्ते ?, सुखं पृच्छति चा (वा) स्य कः ? । भक्तं वा कोऽस्य पानं वा, समानीय समर्पयेत् १ ॥५०॥ यदा सुखी भवत्येप, तदा गच्छति गोचरम् । स्वेच्छया भक्तपानार्थ, वल्लरेषु सरस्सु च ॥ ५१ ॥ पीत्वाऽम्भो भक्ष्यमास्वाद्य, सरस्सु वल्लरेषु च । मृगचर्यो चरित्वा च, याति स्वाश्रयभूमिकाम् ॥ ५२ ॥ एवं समुत्थितो भिक्षुरूर्ध्वं गच्छत्यनेकगः । मृगवत् मुनिरप्येवं, निन्देद् भक्ष्यं न कर्हिचित् ॥ ५३ ॥ मृगचर्यो चरिष्यामि पुत्रैवं ते यथासुखम् । पितृभ्यामित्यनुज्ञातस्त्यक्तवानुपधिं ततः ॥ ५४ ॥ समाता - पितरावेवमनुज्ञाप्य महाग्रहात् । तत्याज ममतां तावत्, महाहिरिव कञ्चुकम् ।। ५५ ।। ऋद्धिं वित्तं सुतान् दारान्, ज्ञातीन् मित्राणि सद्म च । स रजोवत् पटे लग्नं, निर्द्धयोपाददे व्रतम् ॥ ५६ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्रीमृगापुत्र कथा ॥ ९२ ॥
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy