SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जैन कथा - र्णवः 11 2311 www.kobatirth.org प्रसादनार्थमेतस्याः, प्राहिणोत् प्राभृतं नृपः । ज्येष्ठप्रसाद इत्येषा, निर्विकारा तदाददे ॥ ४ ॥ अन्येद्युः प्रार्थयामास तां निरस्य त्रपां नृपः । यशोभद्राऽऽह तं राजन्!, न आतुरपि ते त्रपा ? ॥ ५ ॥ ततोऽसौ दुरभिप्रायो, जघान भ्रातरं नृपः । प्रतस्थे सार्थसार्थेन, शीलरक्षाकृते सती ॥ ६ ॥ श्रावस्त्यां पुर्यगादजितसेनाचार्यसद्गुरोः । महत्तराकीर्त्तिमत्याः पार्श्वे साऽशिश्रियद् व्रतम् ॥ ७ ॥ तदैवोत्पन्नगर्भाशा. बतानादानशङ्कया । महत्तराया नाख्याता, चारित्रोत्सुकया तया ॥ ८ ॥ वर्द्धमाने ततो गर्भे, सोपालम्भनपूर्वकम् । सा महत्तरया पृष्टा, पूर्वोत्पन्नं तमाह च ॥ ९ ॥ शासनोहाहरक्षार्थं, रक्षिता सा सती रहः । क्षुल्लकुमारनामानं प्राभूतसमये सुतम् ॥ १० ॥ सक्रमाद् यौवनावस्थो, दध्यौ पालयितुं व्रतम् । नैव क्षमोऽस्मि पृच्छामि, भोगार्थी मातरं निजाम् ॥ ११ ॥ मात्राऽनुशासितः सम्यक, क्षुल्लः स्थातुमनीश्वरः । देहि मे द्वादशाब्दानि, स तया प्रार्थितो ददौ ॥ १२ ॥ ततो द्वादशवर्षान्ते, पुनः पप्रच्छ मातरम् । साऽप्याख्य [ वोच ] दार्थिकां पृच्छ, तदधीनाऽस्मि यत् सुत ! ॥ १३ ॥ भोगाभिलाषी याम्यस्मि तेनापृच्छि महत्तरा । ममापि द्वादशाब्दानि देहीति तान्यसावदात् ॥ १४ ॥ द्वादशद्वादशाब्दान्याचार्योपाध्याययोरपि । वाचैवं तस्थिवानष्टचत्वारिंशत् स वत्सरान् ।। १५ ।। गच्छंस्तदन्ते मात्रोक्तो, मा याहीतस्ततः सुत । पुण्डरीकः पितृव्यस्ते, साकेते तत्र च व्रजेः ॥ १६ ॥ नाममुद्रां पितुः सत्कां, रत्नकम्बलमद्भुतम् । तस्मै ददौ यशोभद्रा, पुत्रप्रेम्णाऽऽयिका तदा ॥ १७ ॥ आदाय तद् इयं सोऽपि पितृव्यपुरमागमत् । स्थितस्तद्यानशालायां प्रातर्ब्रक्ष्यामि पार्थिवम् ॥ १८ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ****************** श्रीक्षुल्लकमुनिकथा ॥ ८३ ॥
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy