SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 张张张泰泰泰差悉张张张器能带张泰拳泰拳参泰张张张照 तं जामातरमासूत्र्य, सन्मान्य बहुभक्तिभिः । प्रजिघाय यथास्थानं स्वस्येव द्विमुखो यशः ॥ २९ ॥ राज्यं पालयतोऽन्येधुस्तस्यागादुत्सवो हरेः । आदिष्टा नागरा राज्ञा, भोः ! कुर्वन्तु तदुत्सवम् ॥ ३०॥ क्लप्तध्वजपटाटोपस्तै रणत्किङ्किणीगणः। चित्रैश्च(विचित्र) चित्रितोऽनेकैरूर्वीचक्रे हरिध्वजः॥३१॥ ददुर्दानानि दातारो, जगुर्गीतानि गायनाः । वादका वादयामासुर्वाद्यानि मधुरस्वरम् ॥ ३२॥ उल्लेसुरिन्द्रजालानि, चक्रुर्नृत्यानि नर्त्तकाः । जज्ञे सप्तदिनीमेवं, पुरान्तः प्रवरोत्सवः ॥३३॥ पौर्णमास्यागता यावद् , राज्ञा विच्छर्दितो[विच्छित्तितोऽचिंतः। फल-प्रसून-वस्त्राद्यैरुद्यद्वाद्यपुरस्सरम् ॥३४॥ अमेध्य-मूत्रदुर्गन्ध[न्धे], निःश्रीकं पतितं ध्वजम् । मद्यमानं जनैः पादस्त वीक्ष्याचिन्तयत् नृपः ॥ ३५ ॥ अहो ! सर्वेऽप्यमी भावा, ईदृशा एव संसृतौ । धिगस्तु वस्तुतः काम-भोगांस्तान् दुःखदायिनः ॥ ३६ ॥ प्रत्येकबुद्धः शुद्धात्मा, सम्पनश्चिन्तयनिति । पाबाजीद् देवतादत्त-लिङ्गो लोचं विधाय च ।। ३७॥ इति श्रीमुद्रित-ऋषीमण्डलवृत्तितः उद्धता श्री द्विमुखराजर्षिकथा सम्पूर्णः ५४ श्री क्षुल्लकमुनिकथा श्रीसाकेतपुरे क्षोणीवेणीचूडामणीनिभे । राजाऽभूत् पुण्डरीकाक्षः. पुण्डरीकदलेक्षणः ॥१॥ तद्धाता कण्डरीकाक्षो, युवराजोऽस्य पल्ल्यभूत् । यशोभद्रा यशोभद्रा, मुधाकृतसुधा गिरा ॥२॥ पुण्डरीको नृपोऽद्राक्षीदन्येद्युस्तां रहःस्थिताम् । अनावृताङ्गी तन्वङ्गी, रागग्रस्तो बभूव च ॥३॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy