SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsuri Gyanmandie जैन कथा णवः ||७|| | भद्रमहर्षि कथा 经聯蒂蒂蒂器端端謠樂器器鉴號號號號號號號柴柴音 तद्रजोहरणं च द्राग, भवितव्य नियोगतः । पुरः पुरन्दरयशो-देव्या गृधो न्यपातयत् ॥ ५४ ॥ तच्चादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् । काम्बलं खण्डमद्राक्षी-भ्रातुः प्रव्रजतोऽर्पितम् ॥ ५५ ॥ चिह्वेन तेन च ज्ञात्वा, सोदरादीन् मुनीन हतान् । महतीमधृति प्राप्ता, साऽवादीदिति भूपतिम् ॥ ५६ ॥ रे साधुद्विष्ट ! पापिष्ठ !, विनक्ष्यत्यधुना भवान् । महर्षीणां सुराणां च न झवज्ञा शुभावहा! ॥५७॥ इत्युदियेति दध्यौ चा-धुनाऽहं व्रतमाददे । अलं संसारवासेना-ऽमुना दुःखौघदायिना ! ॥ ५८॥ चिन्तयन्तीति सा देवैः, सुव्रतस्वामिसन्निधौ । नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् ! ॥ ५९ ॥ ज्ञात्वाऽथाऽवधिना प्राच्य, स्ववृत्तं स्कन्दकामरः । क्रोधाध्मातो देशयुक्त-मधाक्षीन्मक्षु तत्पुरम् ॥ ६॥ ततोऽरण्यमभूदेश-भूमौ दण्डकिभूपतेः । अद्यापि दण्डकारण्य-मिति तत्प्रोच्यते बुधैः ॥ ६१ ॥ एकोनपञ्चशतसाधुवरैरवार्य-वीर्यथा वधपरीषह एप सोढः ।। सह्यस्तथा यमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न पुनर्विधेयम् ॥ ६२॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धता स्कन्दकाचार्यकथा संपूर्णा. ४६ तृणस्पर्शपरीषहे भद्रमहर्षिकथा श्रावस्तीनगरीभर्तु-र्जितशत्रुमहीपतेः । भद्राभिधोऽभवत्सूनुः, सात्त्विकेषु शिरोमणिः ॥ १ ॥ मुनीनामन्तिके जैनं, धर्म श्रुत्वा विरक्तधीः । स प्रव्रज्यामुपादत्त, क्रमाच्चाऽभूबहुश्रुतः॥२॥ ॥ ७ ॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy