SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ४ १. प्रवर्तक-मुनिश्रीयशोविजयविरचिता ३. ॥। १. श्रीशङ्खेश्वरपार्श्वषट्त्रिंशिका ॥ ॥ अथ पञ्चदशाक्षरचरणमतिशक्वर्यां मार्लिनीवृत्तम् । असमशमविलासं निर्जराचार्यवाचा ऽप्यगणितमहिमानं शुद्धबोधप्रदानम् । प्रभुमहमथ नौमि त्रायकं विश्वजन्तो- रतलकुगतिकूपाद् वर्यशङ्खेश्वरेशम् ॥१॥ ॥ अथैकादशाक्षरचरणं त्रिभि इन्द्रवज्रच्छन्दः ॥ यद्यप्यबुद्धिस्तव सुस्तवेऽहं निःशक्तिको नाथ! तथाऽपि मेऽद्य | दोषापनोदक्षमवाग्विलासं त्वां वीक्ष्य चित्तं यतते स्तवाय IIRII ॥ अथैकादशाक्षरचरणमुपजतिवृत्तम् ॥ विचित्रमाधुर्यविलासिदेवासुरादिवाक्यैः सुहित श्रुतेस्ते । प्रमोददायी भविता मदीय- वाक्काञ्जिको देव ! रुचिप्रदानात् ||३|| नगणयुगलयुक्त मेन मध्ये प्रयुक्ता वगणयुगलनद्धा बद्धमोदप्रबन्धा इह भवति न केषां हारिणी चित्तवृत्तेर्मधुरपदविलासा मालिनी नागवाहैः ॥ उट्टवणिका यथा ।।। ।।। ऽऽऽ ऽऽ ऽऽ २. आदौ तदुग्मेन विराजमाना मध्ये जवारेण विभूषिता या अन्ते गकारद्वयमण्डिता सा स्यादिन्द्रवज्रा विबुधप्रसिद्धा ॥ का SSI SSI ISI SS उपेन्द्रवज्राचरणेन युक्ता स्यादिन्दवज्राचरणाभिरामा । कवीन्द्रलोकैः कथितोपजाति: तस्याः प्रभेदा बहवः प्रसिद्धाः ॥ चतुर्दशोपजातयस्तासां नामानि कीर्तिर्वाणी माला शाला हंसी माया जाया बाला । आर्द्रा भद्रा प्रेमा रामा ऋद्धिर्बुद्धिस्तासामाख्याः ॥ ॥ अथैकादशाक्षरचरणं त्रिष्टुभि इन्द्रवजावृत्तम् ॥ श्रीपार्श्वनाथं भवघोरकूप - सन्तारवाग्दीर्घवरत्रमाप्तम् । सद्बोधनौतीर्णभवाब्धिपारं वन्दारुसन्तानकमानतोऽस्मि ॥४॥ निःशेषदोषानलनाशनीरं, त्वां ये श्रयन्ते गुणवल्लिमेघम् । तानुत्सुका निर्वृतिरेति शीघ्रं पद्मालया पद्ममिव प्रभाते ॥५॥
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy