SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ स्तुतिकल्पलता प्राप्तप्रकर्षं कृतपुण्यसारं, जन्माऽद्य जातं सफलं ममैव । अद्यैव जातो बहुमानपात्रं, ज्ञाताऽद्य संसारविसारता च ॥६।। पद्मावती रक्षति यस्य भक्त्या, तीर्थं जनानां भववारिवारि । कीर्तिप्रतापैरभिराजमानः, श्रीपार्श्वराजः सुखराजयेऽस्तु ॥७॥ ॥ अथैकादशाक्षरचरणं त्रिष्टुभि 'उपेन्द्रवज्रावृत्तम् ॥ शठे द्विषा नो कमठे व्यधारि, बहुज्वलदुःखददेऽभवत् ते । न सेवके भक्तिभरान्विते च, तवाऽनुरागो धरणेन्द्रराजे ॥८॥ इति प्रभो! कर्मचमूरजेया, समूलमुन्मूलितपुण्यराशिः । अहो उदासीनतया त्वयाऽरं, जिता स्ववीर्येण जगत्पतीश ! ॥९।। ॥ अथैकादशाक्षरचरणमुपजातिवृत्तम् ॥ त्वत्पादसेवामकरन्दपूर्णं, त्वद्ध्यानभानूदयजातहर्षम् । सतां हृदब्जं समुपैति सिद्धि-मरन्दलोभाद् भ्रमरीव पद्मम् ॥१०॥ अलब्धपुण्यैरिह दुर्लभं तद्, विपच्छिलोच्छेदनवज्रपातम् ।। वीताभ्रवृष्टेस्सममीक्षणं मे, जातं त्वदीयं शमसौख्यमुख्यम् ॥११॥ कोपप्रवेशो न तवाऽस्ति देव !, न रागलेशोऽपि च देव ! कुत्र ॥ उपेक्षया व्याप्तमिदं जगत् ते, न खण्डिता चेश्वरता तथाऽपि ॥१२।। ॥ अथ द्वादशाक्षरचरणं जगत्यां वंशस्थवृत्तम् ॥ तव क्रमस्पर्शकरा नरास्तु ये, सुखं लभन्ते परमं जिनेश्वर ! । यतो न कि हेम भवेदयस्तु ते, प्रभावत: स्पर्शमणेरगोचरात् ॥१३।। ॥ अथेन्द्रवंशा-वंशस्थस्योरुपजातिादशाक्षरचरणिका ॥ अवर्णनीयं बहुपापगुम्फितं, यच्चाऽनुभूतं भवदुःखभारकम् ।। चरित्रकं मे पुरतस्तवाऽधुना, जानासि देवेति कृतं प्रलापकैः ॥१४।। नमत्सुधाभुक्पतिपूजितक्रमः, श्रीकेवलज्ञानविलोचनाञ्चितः । त्वमीक्षसे नाथ! जगत्त्रयं सदा, ततस्त्रिनेत्राय नमो नमोऽस्तु ते ॥१५।। १. श्रुतिप्रमोदं विदुषां करोति विचित्रशोभा जतजैर्गयुग्मैः । उपेन्द्रवज्रा कथिता कवीन्द्रैर्न कस्य हृद्या भुवि सा प्रसिद्धा । उट्टवणिका यथा - 15। 5 ।।5। 55 गणो जसंज्ञः प्रविभासते पुरस्तकारनामा च परस्ततो भवेत् । ततो जकारो रगणश्च भासते प्रतीहि वंशस्थमिदं महामते ! ।। उट्टवणिका यथा - 15। 55।।5। 515 स्यादिन्द्रवंशाचरणाभिशोभिता प्रबद्धवंशस्थपदावपूरिता । विद्वन्मनःकैरवमोदचन्द्रिका ख्यातोपजाति(वि चाऽपरा बुधैः ॥
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy