SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य प्रथमः पादः ॥ जण्ट - पण्टात् ॥ ६।१८२ ॥ [जण्टपण्टात् ] 'जनैचि प्रादुर्भावे' (१२६५) जन् । जन्यते = जण्टः । 'पणि व्यवहार- स्तुत्योः' (७१०) पण् । पणाय्यते = पण्टः । 'जनि - पणि - किजुभ्यो दीर्घश्च' (उणा०१४०) इति टप्र० - बाहुलकाद् दीर्घाभावः इति न्यासकारः । पक्षिवाचकाविमौ शब्दौ । जण्टश्च पण्टश्च = जण्टपण्टम्, तस्मात् । [जाण्टारः] जण्टस्यापत्यं = जाण्टारः । अनेन णारप्र० → आर । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [पाण्टारः] पण्टस्यापत्यं = पाण्टारः । अनेन णारप्र० → आर । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।। चतुष्पाद्भ्य एयञ् ॥ ६।१।८३ ॥ [चतुष्पाभ्यः ] चत्वारः पादा यासां ताः = चतुष्पादः , ताभ्यः = चतुष्पाद्भ्यः । 'सु - संख्यात्' (७।३।१५०) पाद० → पात् । [एयञ्] एयञ् प्रथमा सि ।। [कामण्डलेयः ] कमण्डलु । 'बाह्वन्त - कद्रु - कमण्डलो म्नि' (२।४।७४) ऊप्र० → ऊ । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । कमण्डल्वा अपत्यं = कामण्डलेयः । अनेन एयप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अकद् - पाण्ड्वोरुवर्णस्यैये' (७।४।६९) ऊलोपः । [शैतिबाहेयः ] शिती बाहू यस्याः सा = शितिबाहू । 'बाह्वन्त - कद्रु - कमण्डलो म्नि' (२।४।७४) ऊप्र० → ऊ । शितिबाह्वा अपत्यं = शैतिबाहेयः । अनेन एयप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अकद्रू - पाण्ड्वोरुवर्णस्यैये' (७।४।६९) ऊलोपः । [माद्रबाहेयः ] मद्राकारौ बाहू यस्याः सा = मद्रबाहू । 'बाह्वन्त०' (२।४।७४) ऊप्र० → ऊ । मद्रबाह्वा अपत्यं = माद्रबाहेयः । अनेन एयप्र० → एय । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अकद्रू - पाण्ड्वोरुवर्णस्यैये' (७।४।६९) ऊलोपः । [जाम्बेयः] जम्बू । जम्ब्वा अपत्यं = जाम्बेयः । अनेन एयप्र० → एय । शेषं पूर्ववत् । [शाबलेयः] शबलाया अपत्यं = शाबलेयः । [बाहुलेयः] बहुलाया अपत्यं = बाहुलेयः । [सौरभेयः] सुरभि । सुरभेरपत्यं = सौरभेयः । अनेन एयप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६९) इलुक् ॥छ।। गृष्ट्यादेः ॥ ६।१।८४ ॥ [गृष्ट्यादेः ] गृष्टिरादिर्यस्य सः = गृष्ट्यादिः, तस्मात् = गृष्टयादेः । पञ्चमी ङसि ।'ङित्यदिति' (१।४।२३) दि० → दे० । 'एदोद्भ्यां०' (२४/३५) ङसि० → र० । [गाष्टयः] गृष्टि । गृष्टेरपत्यं = गार्टेयः ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy