SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३५४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [ब्रह्मचर्यतद्वतोः ] तद् विद्यते यस्य = तद्वान् । ब्रह्मचर्यं च तद्वांश्च = ब्रह्मचर्यतद्वन्तौ, तयोः = ब्रह्मचर्यतद्वतोः । सप्तमी ओस् । [मासिकं ब्रह्मचर्यम् ] मासोऽस्य ब्रह्मचर्यस्य = मासिकम् । अनेन इकणप्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । ब्रह्मचर्यम् । [आर्द्धमासिकम् ] अर्द्धमासोऽस्य ब्रह्मचर्यस्य = आर्द्धमासिकम् । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।। [सांवत्सरिकम् ] संवत्सरो जातोऽस्य ब्रह्मचर्यस्य = सांवत्सरिकम् । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [मासिको ब्रह्मचारी] मासोऽस्य ब्रह्मचारिणः = मासिको ब्रह्मचारी । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । मासं ब्रह्मचर्यमित्यर्थः । [आर्द्धमासिकः] अर्द्धमासोऽस्य ब्रह्मचारिणः = आर्द्धमासिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। - [सांवत्सरिकः] संवत्सरोऽस्य ब्रह्मचारिणः = सांवत्सरिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। प्रयोजनम् ।। ६।४।११७ ।। [प्रयोजनम् ] प्र 'युजंपी योगे' (१४७६) युज् । प्रयुङ्क्ते प्रयोजयति वा = प्रयोजनम् । रम्यादित्वात् अनटप्र० → अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । सि-अम् । सोऽस्येति वर्त्तते । प्रयोजनम्, प्रयोजकम्, प्रवर्तकम्, जनकं तुर्यनाम्नः । [जैनमहिकम् ] जिनमह मण्ड्यते । जिनमहः प्रयोजनमस्य तत् = जैनमहिकं देवागमनम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । हिकम् ] इन्द्रमहः प्रयोजनमस्य तत् = ऐन्द्रमहिकम् । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् । [आभिषेचनिकम् ] अभिषेचनं प्रयोजनमस्य तत् = आभिषेचनिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [दैपोत्सविकम् ] दीपप्रधान उत्सवः = दीपोत्सवः । दीपोत्सवः प्रयोजनमस्य तत् = दैपोत्सविकम् । अनेन इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ॥छ।। एकागाराच्चौरे ॥ ६।४।११८ ॥ [एकागारात् ] एकं च तद् अगारं च = एकागारम्, तस्मात् । [चौरे ] चौर सप्तमी ङि । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[354]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy