SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३५३ [द्विमास्यो दारकः] द्वौ मासौ भूतः = द्विमास्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। दारकः । [त्रिमास्यो दारकः] त्रीन् मासान् भूत:-प्राप्तः = त्रिमास्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। दारकः । [द्वैमासिको व्याधिः] द्वौ मासौ भावी । 'तं भावि-भूते' (६।४।१०६) इकणप्र० - इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [ द्वैमासिको युवा ] द्वौ मासौ भावी = द्वैमासिको युवा । 'तं भावि-भूते' (६।४।१०६) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । युवन् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ॥छ।। ईनञ् च ।। ६।४।११४ ॥ [ईनञ्] ईनञ् प्रथमा सि । [च] च प्रथमा सि । द्विगोरिति निवृत्तम् । [मासीनः, मास्यो दारकः] मासं भूतः = मासीनः, मास्यः । अनेन ईनञ् → ईन-यश्च प्रत्ययः । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । दारकः । अकारो वृद्धिहेतुत्वेन पुंवद्भावाभावार्थः । [मासीनास्वसकः] मासीना स्वसा यस्य सः = मासीनास्वसृकः । 'ऋन्नित्यदितः' (७।३।१७१) कच्प्र० २ क । [मासिको नायकः] मासेन निर्वृत्तः = मासिकः । [तेन] 'निर्वृत्ते' (६।४।१०५) इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । नायकः ॥छ।। षण्मासाद् य-यणिकण् ॥ ६।४।११५ ॥ [ षण्मासात् ] षण्मास पञ्चमी ङसि । [ययणिकण्] यश्च यण् च इकण च = ययणिकण् । प्रथमा सि । 'दीर्घयाब्' (१।४।४५) सिलुक् । [षण्मास्यः, षाण्मास्यः, षाण्मासिकः] षण्मासान् भूतः = षण्मास्यः, षाण्मास्यः, षाण्मासिकः । अनेन य-यण → य- इकण् → इकप्र० । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। [षाण्मास्यः, षण्मासिको नायकः] षण्मासान् भावी भूतो वा । 'षण्मासादवयसि ण्येकौ' (६।४।१०८) ण्यप्र० → य-इकश्च प्रत्ययः । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । नायकः ॥छ।। सोऽस्य ब्रह्मचर्य-तद्वतोः ॥ ६।४।११६ ॥ [सोऽस्य ] तद् प्रथमा सि । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'तः सौ सः' (२।१।४२) त० → स० क्रियते । 'सो रुः' (२।१।७२) स० → र० । अथवा सो मण्ड्य ते । पञ्चमी ङसि । सूत्रत्वाल्लोपः । अस्य सप्तमी ङि। सूत्रत्वाल्लोपः । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [353]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy