SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः ॥ गो-रथ-वातात् त्रल-कट्यलूलम् ॥ ६।२।२४ ॥ [गोरथवातात् ] गो(गौ)श्च रथश्च वातश्च = गोरथवातम्, तस्मात् । [बल्कट्यलूलम् ] त्रल् च कट्यल् च ऊलश्च = वल्कट्यलूलम् । [गोत्रा ] गो । गवां समूहः = गोत्रा । अनेन वल्प्र० → त्र । 'आत्' (२।४।१८) आप्प्र० → आ । [ रथकट्या ] रथानां समूहः = रथकट्यः (ट्या) । अनेन कट्यलप्र० २ कट्य । 'आत्' (२।४।१८) आपप्र० → आ । लकारौ स्त्रीत्वार्थों । [वातूलः ] वात । वातानां समूहः = वातूलः । अनेन ऊलप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । समूहत्वात् क्लीबत्वे प्राप्ते वातूलतालेति पदपाठात् पुंस्त्वम् (लिङ्गानुशासने पुल्लिङ्गे - ॥१३॥) छ।। पाशाऽऽदेश्च ल्यः ।। ६।२।२५ ॥ [पाशाऽऽदेः] पाश आदिर्यस्य सः = पाशाऽऽदिः, तस्मात् । [च ] च प्रथमा सि । [ल्यः] ल्य प्रथमा सि ।। [पाश्या] 'पश बन्धने' (१७५२) पश् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । पाश्यते-बध्यते एभिः प्राणिनः इति पाशः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । पाशानां समूहः = पाश्या । अनेन ल्यप्र० → य । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । [तृण्या] तृणानां समूहः = तृण्या । अनेन ल्यप्र० → य । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । [खल्या ] खलानां समूहः = खल्या । अनेन ल्यप्र० → य । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । [गव्या] गो । गव्यानां(गवां) समूहः = गव्या । अनेन ल्यप्र० → य । 'य्यक्ये' (१।२।२५) अव् । 'आत्' (२।४।१८) आप्प्र० → आ । लकारः स्त्रीत्वार्थः ॥छ।। श्वादिभ्योऽञ् ॥ ६२।२६ ॥ [श्वादिभ्यः ] श्वन् । श्वा आदिर्येषां ते = श्वादयः, तेभ्यः । [अञ्] अञ् प्रथमा सि । [शौवम् ] श्वन् । शुनां समूहः = शौवम् । अनेन अप्र० → अ । 'लोकात्' (श१२३) श् पाठउ विश्लेषियइ । 'द्वारादेः' (७।४।६) औ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लोपः । [आह्नम् ] अहन् । अह्नां समूहः = आह्नम् । अनेन अप्र० → अ । 'अनीनाऽदट्यह्नोऽतः' (७/४/६६) अलोपः । सि-अम् । Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [121]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy