SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [दाण्डम् ] दण्डिन् । दण्डिनां समूहः = दाण्डम् । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लोपः । - [चाक्रम् ] चक्रमस्यास्ति = चक्री । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । चक्रिणां समूहः = चाक्रम् । अनेन अप्र० → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लोपः । सि-अम् । अणैव सिद्धे 'नोऽपदस्य तद्धिते' (७।४।६१) इत्यन्त्यस्वरादिलोपार्थमञ्वचनम् । अन्यथा 'अणि' (७।४।५२) इत्यादिभिः सूत्रैरन्त्यस्वरादिलोपनिषेध: स्यात् । अणपवाद(:) अचित्तेकण् इत्यस्य बाधनार्थं च ॥छ।। खलाऽऽदिभ्यो लिन् ॥ ६।२।२७ ।। [खलाऽऽदिभ्यः] खल आदिर्येषां ते = खलादयः, तेभ्यः । [लिन्] लिन् प्रथमा सि । लकारः स्त्रीत्वार्थः । [खलिनी, खल्या ] खल । खलानां समूहः = खलिनी । अनेन लिन्प्र० → इन् । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) ङी । एवम्-खल्या । 'पाशाऽऽदेश्च ल्यः' (६।२।२५) ल्यप्र० → य । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । धान्यराशिः । [ऊकिनी] ऊकानां समूहः = ऊकिनी । अनेन लिन्प्र० → इन् । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादेर्डी:' (२।४।१) ङी ।। [कुटुम्बिनी] कुटुम्बानां समूहः = कुटुम्बिनी । अनेन लिन्प्र० → इन् । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादे8:' (२।४।१) ङी ॥छ।। ग्राम-जन-बन्धु-गज-सहायात् तल् ॥ ६।२।२८ ।। [ग्रामजनबन्धुगजसहायात् ] ग्रामश्च जनश्च बन्धुश्च गजश्च सहायश्च = ग्रामजनबन्धुगजसहायम्, तस्मात् । [तल्] तल् प्रथमा सि । [ग्रामता] ग्रामाणां समूहः । [जनता] जनानां समूहः । [बन्धुता] बन्धूनां समूहः । [गजता] गजानां समूहः । [सहायता] सहायानां समूहः । सर्वत्र अनेन तलप्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । लकारः स्त्रीत्वार्थः ॥छ।। पुरुषात् कृत-हित-वध-विकारे चैयञ् ।। ६।२।२९ ।। [पुरुषात् ] पुरुष पञ्चमी ङसि । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [122]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy