SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-११-१९] प्राकृतप्रबोधः स्वरेऽन्तरश्च ॥ १.१४ ॥ [अंतरप्पा] । अन्तरात्मन् । ह्रस्वः संयोगे । भस्मात्मनोः पो वा । अनादौ० - द्वित्वम् । अन्त्यव्यञ्जनस्य - लुक् । सि । पुंस्यन आणो राजवच्चेत्यतिदेशात् राज्ञ इत्यनेना ऽस्याऽऽत्वम् । सेरन्त्यव्यञ्जनस्य - लुक् ॥ [निरवसेसं] । निरवशेष । शषोः सः ॥ [अंतोउवरिं ] । अन्तर् । अन्त्यव्यञ्जनस्य - रलुक् । सेझैः । उपरि संस्कृतसिद्धः । वक्रादावन्त इत्यनुस्वारः ॥ १.१४ ॥ स्त्रियामादविद्युतः ॥ १.१५ ॥ [पाडिवया ] । प्रतिपद् । सर्वत्रेति रलुक् । अतः समृद्ध्यादौ वा - आत्वम् । प्रत्यादौ डः । पो वः । सूत्रेण आत्वम् । अवर्णो यश्रुतिः ॥ [विज्जू ] । विद्युत् । द्यय्यर्यां जः । अनादौ० - द्वित्वम् । अन्त्यव्यञ्जनस्य - त-स्योर्मुक् । अक्लीबे सौ - दीर्घः ॥ १.१५ ॥ रो रा ॥ १.१६ ॥ क्षुधो हा ॥ १.१७ ॥ [छुहा ] । क्षुध् । छोऽक्ष्यादौ, खबाधनार्थं छकारः । सि । अन्त्यव्यञ्जनस्य ॥ १.१७ ॥ शरदादेरत् ॥ १.१८ ॥ [ सरओ] । शरद् । प्रावृटशरत्तरणयः पुंसि इति पुंस्त्वम् ॥ १.१८ ॥ दिक्-प्रावृषोः सः ॥ १.१९ ॥ [दिसा] । दिश् । ऋत्विग्दिश इत्यादिना दिग् । अनेन स । आत् इत्याप् । सि । अन्त्यव्यञ्जनस्य ॥ [पाउसो]। सर्वत्र ल० । उदृत्वादौ - ऋकारस्य उत्वम् । प्रावृटशरत्० - पुंस्त्वे से?ः ।। १.१९॥ १. अन्तोवरि - मु. । (-अशुद्धमिदम् ।) अन्तोउवरिं - ता. । २. सिद्धः । पो वः । स्त्रिया० - क. । (एतदनुसारम् 'अन्तोउवरि' सिध्यति ।) ३. पडिवया - ता. । पाडिवया - मु. । ४. वा - दीर्घपाठः । प्रत्यादौ० - क. । वा - दीर्घः । प्रत्यादौ० - दी. । ५. दीर्घः । रो रा । गिर् । धुर् । पुर् प्र. । अनेन रादेशः । अन्त्यव्यञ्जनस्य - सिलुक् । क्षुधो० - ख.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy