SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । २३१ संसारवासनिविस्म: सुधर्ममुनिसन्निधौ। जग्राह स सुधीर्दीक्षां शिक्षां च द्विविधामपि ॥ ४ ॥ स पञ्च समिती: सम्यक् पालयामास यत्नतः । गुप्ती चापालयत् कायगुप्तो किं तु न निश्चलः ॥ ५० ॥ 'कायोत्सर्गे स्थितो दंशमशकोपद्रवे सति । पारयामास तं शीघ्रमसंपूर्णेऽवधावपि ॥ ५१ ॥ सुधर्मसाधुनाऽभाणि किमावश्यकखण्डनम् ? । प्रकरोषि यतो दोषो व्रतभङ्गे भवेद् महान् ॥ ५२ ॥ ततस्तद्भयभीतोऽसावसहिष्णुरिमामपि । गुप्तिं निर्वाहयामास वैयावृत्त्यं चकार च ॥ ५३ ॥ मृत्वा समाधिना सोऽन्ते सोधर्मे त्रिदशोऽभवत् । जने तव सुत: शेष्ठिन् ! तत: च्युत्वाऽऽयुषः क्षये ॥ ५४ ॥ सप्त प्रवचनमातृयत् सुखेनैव पालिताः । तदनेन प्रियाः सप्त परिणोताः सुखेन हि ॥ ५५ ॥ कष्टेन पालिका यत् प्रियाऽप्येवमभूत् ततः । अप्रमादो विधातव्यो धर्मकर्मणि सर्वथा ॥ ५६ ॥ तच्छ्रुत्वा जातसंवेगोऽग्रहीद दीक्षां पुरन्दरः । जग्राह श्रावकत्वं च पुण्यसारो विवेकवान् ॥ ५७ ॥ - - - (१) घ ङ कायोत्सर्गस्थितो। (२) द भोः। (२) ड मोऽपि । (५) ङ, च श्रेयपि।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy