SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ २३० श्रीशान्तिनाथचरित्रे वधूर्वी 'वन्दत इति भर्त्रा निर्दिश्यमानया । नमश्चक्रेऽनया राजा श्वश्रूश्वशुरको तथा ॥ ३८ ॥ किमेतदिति पृष्टश्व पुण्यसारः कथां निजाम् । कथयामास भूपस्यातिविस्मयविधायिनीम् ॥ ४० ॥ विज्ञप्तो रत्नसारेण राजैवं येन मे सुता । उदूढा सोऽभवद् नारी तदस्या देव ! का गतिः ? ॥ ४१ ॥ सोऽवादोदत्र प्रष्टव्यं किमु भोः साऽपि गेहिनी ? | भवतात् पुण्यसारस्योदूढा तग्रियया यतः ॥ ४२ ॥ सा रत्नसुन्दरो ताश्च वल्लभा वलभीपुरात् । आययुः पुण्यसारस्य मन्दिरं पुण्ययोगतः ॥ ४३ ॥ एवमष्टौ कलत्राणि कृतचित्राणि शृखताम् । पूर्वं विहितपुण्यस्य पुण्यसारस्य जज्ञिरे ॥ ४४ ॥ धर्मदेशनया भव्यप्राणिनः प्रतिबोधयन् । ज्ञाननाराभिधाऽऽचार्यस्तत्रान्येद्युः समाययौ ॥ ४५ ॥ अथ तद्दन्दनाहेतोर्भक्तिभावितमानसः । ययौ पुरन्दरः श्रेष्ठो पुण्यसारसमन्वितः ॥ ४६ ॥ 'मोऽथ नत्वा तमाचार्य पप्रच्छेति कृताञ्जलिः । प्रभो ! मत्सूनुना पूर्वभवे किं सुकृतं कृतम् ? ॥ ४७ ॥ शशंस सोऽवधिज्ञानी पुरे नीतिपुराभिधे । बभूव कश्चिदुच्छिन्नसन्तानः कुलपुत्रकः ॥ ४८ ॥ (१) द विन्दत इति । (२) ध ज ट मत्सुता । (३) ङ कलत्राणां । (४) द असौ ।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy