SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ १७४ श्रीशान्तिनाथचरित्रे दायादैरन्यदा तच्च संभूय बलवत्तरैः । प्रसह्य स्वीकृतं देशात् निरासे स च सानुजः ॥ ७० ॥ देवराजः स देवाज्यमाययौ युष्मदन्तिके । सेवाविधित्सयाऽस्माभिरनुजैः परिवारितः ॥ ७१ ॥ गुणदूतसमाहता भवतामन्तिके वयम् । धृत्वा सम्भावनां चित्ते समायाता महीपते ! ॥ ७२ ॥ हृष्टो राजाऽवदद् ययं मम पाखें यदागताः । तत्साधु विहितं सन्तः सतां शरणमेव यत् ॥ ७३ ॥ प्रतीहारं समादिश्य राज्ञा वृत्तिसमन्वितः । निवासाय ततस्तेषामावासः प्रवरोऽर्पितः ॥ ७४ ॥ दृढभक्तिपरा: प्रौढाः सेवकास्ते महोभुजा। . प्रसादपूर्वकं स्वाङ्गरक्षकत्वे नियोजिताः ॥ ७५ ॥ . रात्रेश्चतुर्षु यामेषु चत्वारोऽपि क्रमेण ते । चक्रिरे नृपते रक्षां शयितस्य धृताऽऽयुधाः ॥ ६ ॥ ग्रीष्मकालेऽन्यदा देवराजोऽनुज्ञाप्य भूपतिम् । ग्रामे क्वापि समासन्ने ययौ कार्येण केनचित् ॥ ७७ ॥ कार्यं कृत्वा स मध्याह्ने वलितो यावदन्तरे । भीषणा तावदुत्तस्थौ प्रबला वातमण्डली ॥ ७ ॥ धूलिरुच्छलति स्मोच्चैः प्रचण्डपवनोदता। निपेतुः कर्कराः पत्रणानि भ्रमरम्बर ॥ ७८ ॥ पपात विरलं चाम्बु गुरुगर्जारवोत्कटम् । विललास तथा विद्युद् दृष्टि सन्तापकारिणी ॥ ८० ॥
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy