SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ योगशाखम्। पश्चमा प्रकाश ॥६९९॥ एकद्वित्रिचतुःपञ्चसङ्ख्याता ये द्वादशाहास्तेषां क्रमेण क्षयस्ततः पोडशादीनि विंशत्यन्तानि पश्च दिनानि शोध्यानि ॥१०२॥ तद्यथेति विवृणोति-- | प्रवहत्येकनासायां षोडशाहोनि मारुते । जीवेत्सहाष्टचत्वारिंशतं दिनशतत्रयीम् ॥१०३॥ पोडश दिनानि पिङ्गलायां वहति वायावष्टचत्वारिंशदधिकां दिनशतत्रयीं जीवेत् , षटयधिकशतत्रयीमध्यादेकस्य द्वादशाहस्यापनयने एतदेव भवति ॥१०३।। तथावहमाने तथा सप्तदशाहानि समीरणे । अनां शतत्रये मृत्युश्चतुर्विंशतिसंयुते ॥१०४॥ सप्तदश दिनानि वहति वायौ चतुर्विशत्यधिकं दिनशतत्रयं जीवति, अष्टचत्वारिंशदधिकशतत्रयाद् द्वयो योरपनयने एतदेव भवति ॥१०४॥ तथा-- | वहति विचरत्यष्टादशाहानि तथैव च । नाशोऽष्टोशीतिसंयुक्ते गते दिनशतद्वये ॥१०५॥ अष्टादश दिनानि वहति वायौ अष्टाशीत्यधिके दिनशतद्वये मृत्युः, चतुर्विशत्यधिकशतत्रयात्त्रयाणां द्वाद नामपनयने एतदेव भवति ॥१०५॥ तथा| चरत्यनिले तद्वदिनान्येकोनविंशतिम् । चत्वारिंशद्युते याते मृत्युर्दिनशतद्वये ॥१०६॥ ॥६९९॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy