SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ योग शाखम्। पञ्चम प्रकाश ॥६९८॥ IM तथैव द्वादशाहानि वायौ वहति जीवति । दिनानां षट्शतीमष्टचत्वारिंशत्समन्विताम् ॥९८ द्वादशाहानि वहति वायौ अष्टचत्वारिंशदधिकां दिनषट्शतीं जीवति, पण्णवत्यधिकषट्शतीमध्यात् द्वयोश्च तुर्विशत्योरपनयने एतदेव भवति ॥९८॥ तथात्रयोदश दिनान्यर्कनाडीचारिणि मारुते । जीवेत्पञ्चशतीमहूनां षट्सप्ततिदिनाधिकाम् ॥१९॥ ___ त्रयोदश दिनानि वहति वायौ षट्सप्तत्यधिकां दिनपञ्चशतीं जीवेत् , अष्टचत्वारिंशदधिकषट्शतीमध्यात्तिसृणां चतुर्वि शतीनामपनयने भवत्येतदेव ॥९९॥ तथाचतुर्दश दिनान्येवं प्रवाहिणि समीरणे। अशीत्यभ्यधिकं जीवेदनां शतचतुष्टयम ॥१०॥ चतुर्दश दिनानि वहति वायौ अशीत्यधिकां दिनचतुःशतीं जीवेत् , षट्सप्तत्यधिकपञ्चशतीमध्याच्चतमृणां चतुर्विंशतीनामपनयने एतदेव स्यात् ॥१०॥ तथातथो पञ्चदशाहानि यावद्वहति मारुते । जीवेत् षष्टिदिनोपेतं दिवसानां शतत्रयम् ॥१०॥ पञ्चदश दिनानि वहति वायौ षष्टयधिकं दिनशतत्रयं जीवेत् , अशीत्यधिकचतुःशतीमध्यात् पञ्चानां चतुर्विशतीनामपनयने एतदेव भवति ॥१.१॥ तथाएकद्वित्रिचतुःपञ्चद्वोदशाहक्रमक्षयात् । षोडशाद्यानि पञ्चाहान्यत्र शोध्यानि तद्यथा ॥१०२॥ ॥६९८ BCCES
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy