SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ योगशाखम् प्रकाशः। ॥६९७॥ भवति । अष्टाहवाहिनि तु वायौ पत्रिंशदधिकां दिननवशतीं जीवेत् , अष्टोत्तरसहस्रात्तिमृणां चतुर्विंशतोनामपन यने एतदेव भवति ॥१३॥ तथा-- एकत्रैव नवाहानि तथा वहति मारुते । अनामष्टशती जीवेच्चत्वारिंशदिनाधिकोम् ॥९॥ नव दिनानि वहति वायौ चत्वारिंशदधिकां दिनानामष्टशतीं जीवेत् पत्रिंशदधिकनवशतीमध्याच्चतमृणां चतुर्विशतीनामपनयने एतदेव भवति ॥१४॥ तथा-- । तथैव वायौ प्रवहत्येकत्र दश वासरान् । विंशत्यभ्यधिकामना जीवेत्सप्तशती ध्रुवम् ॥१५॥ ____ दश वासरान् वायौ वहति विंशत्यधिकां दिनसप्तशतीं जीवेत् । चत्वारिंशदधिकाष्टशतीमध्यात् पञ्चानां चतुर्वि शतीनामपनयने एतदेव स्यात् ॥९५॥ तथाएकद्वित्रिचतुःपञ्चचतुर्विंशत्यहाक्षयोत् । एकादशादिपञ्चाहान्यत्र शोध्यानि तद्यथा ॥१६॥ ___ स्पष्टः ॥९६॥ तद्यथेति एनमेव श्लोकं विवृणोतिएकादश दिनान्यर्कनाड्यां वहति मारुते। षण्णवत्यधिकान्यहनां षट् शतान्येव जीवति ॥९७॥ एकादश दिनानि वहति वायौ षण्णवत्यधिकानि दिनानां षट् शतानि जीवति, विंशत्यधिकसप्तशतीमध्यादेकस्याश्चतुर्विशतेरपनयने एतदेव भवति ॥९७॥ तथा ॥६९७॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy