SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ तृतीय प्रकाशा दण्ड इति यावत्, तस्य त्यागोऽनर्थदण्डविरतिस्तृतीयं गुणवतम् । यदाह १ज इंदियसयणाई पडुच्च पावं करेज सो होई । अत्थे दंडो एत्तो अण्णो उ अणत्थदंडो उ॥१॥७३।। ७४॥ पोग अपध्यानस्य स्वरूपं परिमाणं चाहशास्त्रम् uTM वैरिघातो नरेन्द्रत्वं पुरघाताग्निदीपने। खचरत्वाद्यपध्यानं मुहूर्तात्परतस्त्यजेत् ॥७५॥ वैरिघातपरयाताग्निदीपनादिविषयं रौद्रध्यानमपध्यान, नरेन्द्रत्वं खचरत्वमादिशब्दादप्सरोविद्याधरीपरिभोगादि, तेष्वार्तध्यानरूपमपध्यान, तस्य तत्परिमाणरूपं व्रतं मुहूर्तात्परतस्त्यजेदिति ॥ ७५ ॥ अथ पापोपदेशस्वरूपं तद्विरतिं चाहवृषभान दमय क्षेत्र कृष षण्ढय वाजिनः। दाक्षिण्याविषये पापोपदेशोभ्यंन कल्पते ॥७॥ वृषभान् वत्सतरान् प्रसङ्गादिना दमय दान्तान् कुरु, प्रत्यासीदति सलु वर्षाकालः, तथा क्षेत्रं बीजावापभवं कृष, वृष्टः खलु मेघो, यास्यति वापकालो, भृता वा केदारा गायन्तां, साईदिनत्रयमध्ये उप्यन्तां च ब्रीडयः,तथा नेदीयोऽश्वः प्रयोजनं राज्ञामिति षण्ढय वर्द्धितकान् कुरु वाजिनोऽश्वान् उपलक्षणं चैतदन्येषां ग्रीष्मे दवामिदानादीनाम, अयं पापरूप उपदेशः, श्रावकाणां न कल्पते न युज्यते । सर्वत्र पापोपदेशनियमं कर्तुमशक्तभ्योऽपवा (१) यदिन्द्रियस्वजनादीन् प्रतीत्य पापं कुर्यात् स भवति । अर्थे दण्डः इतः अन्यस्तु अनर्थदण्डस्तु ॥१॥ (२) समीपतरं प्रयोजनमश्वः । ॥३४॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy