SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ तृतीय प्रकाशा शास्रम् ॥३४२॥ दोऽयमुच्यते । दाक्षिण्याविषय इति । बन्धुपुत्रादिविषयदाक्षिण्यवतः पापोपदेशोऽशक्यपरिहारः। दाक्षिण्याभावे तु यथा तथा मौखर्येण पापोपदेशो न कल्पते ॥७६ ॥ ____ अथ हिंसोपकारीणि तददानपरिहारं चाहयन्त्रलाङ्गलशस्त्राग्निमुशलोदूखलोदिकम् । दाक्षिण्याविषये हिंसं नार्पयेत्करुणापरः ॥७७॥ . यन्त्रं शकटादि, लाङ्गलं हलं, शख खड्गादि, अग्निवह्निः, मुशलमयोऽग्रं, उदुखलमुलूखलं, आदिशब्दाद्धनुभखादिपरिग्रहः । हिंसं वस्तु, करुणापरः श्रावको नार्पयेत्, दाक्षिण्याविषय इति पूर्ववत् ॥ ७७॥ अथ प्रमादाचरणमनर्थदण्डस्य चतुर्थभेदं तत्परिहारं च श्लोकत्रयेणाहकुतूहलाद्गीतनृत्तनाटकादिनिरीक्षणम् । कामशास्त्रप्रसक्तिश्च द्युतमद्यादिसेवनम् ॥ ७॥ जलक्रीडाऽऽन्दोलनादिविनोदोजन्तुयोधनम् । रिपोः सुतादिना वैरं भक्तस्त्रीदेशराटकथाः।७९। रोगमार्गश्रमौ मुक्त्वा स्वापश्च सकलां निशाम् । एवमादि परिहरेत्प्रमादाचरणं सुधीः ।८।। ___ कतूहलात्कौतुकादेतोर्गीतस्य नृत्तस्य नाटकस्य आदिशब्दात्प्रकरणादोनिरीक्षणं, तेन तेनेन्द्रियेण यथोचितं विषयीकरणम् । कुतूहलग्रहणाज्जिनयात्रादौ प्रासङ्गिकनिरीक्षणे च न प्रमादाचरणम् । तथा कामशास्त्रे वात्स्यायनादिकृते, प्रसक्तिः पुनः पुनः परिशीलनम्, तथा द्यूतमक्षकादिभिः क्रीडनम्, मद्यं सुरा, आदिशब्दान्मृगयादि, तेषां सेवनं परिशीलनं, तथा जलक्रीडा तडागजलयन्त्रादिषु मज्जनोन्मज्जनश्रुङ्गिकाच्छोटनादिरूपा, तथा आन्दो ॥३४२॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy