SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ द्वितीय प्रकाशः योगशास्त्रम् | दौर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत्॥६५॥ ॥२१॥ दौर्भाग्यमुद्वेजनीयता, प्रेष्यता परकर्मकरत्वं, दास्यमङ्कपातादिना परायत्तशरीरता, अङ्गच्छेदः करचरणादिच्छेदः, दरिद्रता निर्धनत्वं, एतानीहामुत्र चादत्तादानफलानि शास्त्रतो गुरुमुखाद्वा ज्ञात्वा स्थूलं चौरादिव्यपदेशनिबन्धनं स्तेयं विवर्जयेच्छावकः ॥६५॥ स्थूलस्तेयपरिहारमेव प्रपञ्चयतिपतितं विस्मृतं नष्टं स्थितं स्थापितमाहितम् । अदत्तं नाददीत स्व. परकीय क्वचित्सुधीः॥६६॥ पतितं गच्छतो वाहनादेष्ट, विस्मृतं कापि मुक्तमिति स्वामिना यन्न स्मर्य्यते, नष्ट कापि गतमिति स्वामिना यन्न ज्ञायते, स्थितं स्वामिपावें यदवस्थित, स्थापितं न्यासीकृतं, अहित निधीकृतं, तदेवंविधं परकीय स्वं धनमदत्तं सभाददीत कचिद्रव्यक्षेत्राद्यापद्यपि सुधीः प्राज्ञः॥६६॥ इदानीं स्तेयकारिणो निन्दतिअयं लोकः परलोको धमा धैर्य धृतिर्मतिः। मुष्णता परकीयं स्वं मुषितं सर्वमप्यदः॥६॥ परकीयं स्वं धनं मुष्णता अपहरता सर्वमप्यद एतत् स्वं स्वकीयं मुषितं स्वशब्दस्योभयत्र संबन्धात् । किं तदित्याह, अयं लोकः अयं प्रत्यक्षेणोपलभ्यमानो लोक इदं जन्मेत्यर्थः, परलोको जन्मान्तरं, धर्मः पुण्यं धैर्यमापत्स्वप्यवैक्लव्यं धृतिः स्वास्थ्य, मतिः कृत्याकृत्याविवेकः ॥६७।। SECONCE ॥११॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy