SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् द्वितीय प्रकाशा अथ हिंसाकारिभ्योऽपि स्तेयकारिणो बहुदोषत्वमाह-- | एकस्यैकं क्षणं दुःख मार्यमाणस्य जायते । सपुत्रपौत्रस्य पुनर्यावज्जीव हृते धने ॥६॥ एकस्य न तु बहूनां एक क्षणं न तु बहुकालं, दुःखमसातं, मार्यमाणस्य हिंस्यमानस्य । स्तेयकारिणा त्वपहृते धने परस्य सपुत्रपौत्रस्य, न त्वेकस्य, यावज्जीवं न त्वेकं क्षणं, दुःखं जायत इति संबन्धः ॥६८॥ उक्तमपि स्तेयफलं प्रपञ्चेनाहचार्यपापद्रुमस्येह वधवन्धादिकं फलम् । जायते परलोके तु फल नरकवेदना ॥६९॥ चौ-त्पापं तदेव द्रुमस्तस्येह लोके फलं वधबन्धादिकं, परलोके तु फलं नरकभाविनी वेदना ॥६९॥ अथ कदाचित्प्रमादात् स्तेयकारी नृपतिभिन नियत तथाप्यस्वास्थ्यलक्षणमैहिकं फलमवस्थितमेव इत्याहदिवसे वा रजन्यां वा स्वप्ने वाजागरेऽपि वा । सशल्य इव चौर्येण नैति स्वास्थ्यं नरः क्वचित्७० स्वमः स्वापः, जागरो निद्राया अभावः, चौर्येण हेतुना कचिदपि स्थाने ॥७॥ न केवलं स्तेयक: स्वास्थ्याभाव एव किन्तु बन्धुभिः परित्यागोऽपीत्याह| मित्रपुत्रकलत्राणि भ्रोतरः पितरोऽपि हि । संसजन्ति क्षणमपि न म्लेच्छैरिव तस्करैः ७१ पिता जनकः, पितृतुल्याः पितरः, पिता च पितरश्च पितरः न संसजन्ति न मिलन्ति पापभयात् । यदाहुःब्रह्महत्या सुरापाणं स्तेयं गुर्वगनागमः। महान्ति पाताकान्याहुस्तत्संसर्ग च पश्चमम् ॥१॥ ॥२१२॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy